________________
२२
तत्त्वार्थवार्तिके
[१॥३ यिषया अर्हन्मतविजिगीषया वा अर्हन्मतमधीयन्ते । नचेच्छामन्तरेण अध्ययनमस्ति, अतस्तेषामपि सम्यग्दर्शनं प्राप्नोति । इत्ययुक्तमुक्तम्-'इच्छा श्रद्धानम्' इति ।
केवलिनि सम्यक्त्वाभावप्रसङगाच्च ।२८। यदि च, इच्छा सम्यक्त्वम्, इच्छा च लोभपर्यायः, न च क्षीणमोहे केवलिनि लोभोऽस्ति, तदभावादिच्छाभाव इति सम्यक्त्वाभावः ५ स्यात् । तस्मात् यद्भावात् यथाभूतमर्थ गृह्णात्यात्मा तत् सम्यग्दर्शन मिति प्रत्येतव्यम् ।
तद् द्विविधं सरागवीतरागविकल्पात् ।२९। एतत्सम्यग्दर्शनं द्विविधम् । कुतः ? सरागवीतरागविकल्पात् ।
प्रशमसंवेगानुकम्पास्तिक्याभिव्यक्तलक्षणं प्रथमम् ।३०। रागादीनामनुद्रेक: प्रशमः । संसाराद्भीरुता संवेगः । सर्वप्राणिषु मैत्री अनुकम्पा । जीवादयोऽर्था यथास्वं भावैः सन्तीति १० मतिरास्तिक्यम् । एतैरभिव्यक्तलक्षणं प्रथमं सरागसम्यक्त्वमित्युच्यते ।।
___'आत्मविशुद्धिमात्रमितरत् ।३१। सप्तानां कर्मप्रकृतीनाम् आत्यन्तिकेऽपगमे सत्यात्मविशुद्धिमात्रमितरद् वीतरागसम्यक्त्वमित्युच्यते । अत्र पूर्व साधनं भवति, उत्तरं साधनं साध्यं च। __ अर्थतत्सम्यग्दर्शनं जीवादिपदार्थविषयं कथमुत्पद्यत इति ? अत आह--
तन्निसर्गादधिगमाद् वा ॥३॥ निसर्ग इति कोऽयं शब्द: ? निपूर्वात् सृजेर्भावसाधनो घा, निसर्जनं निसर्गः स्वभाव इत्यर्थः । अथाधिगम इति कः? अधिपूर्वाद् गर्भावसाधनोऽच्, अधिगमनमधिगमः। तयोर्हेतुत्वेन निर्देशो निसर्गादधिगमादिति । कस्याः ? क्रियायाः। का च क्रिया ? 'उत्पद्यते' इत्यध्याह्नियते, सोपस्कारत्वात् सूत्राणाम् । तदेतत्सम्यग्दर्शनं निसर्गादधिगमाद्वा उत्पद्यत इति ।
कश्चिदाह
सम्यग्दर्शनद्वैविध्यकल्पनानुपपत्तिः, अनुपलब्धतत्त्वस्य श्रद्धानाभावात् रसायनवत् ।। द्विविधं सम्यग्दर्शनमिति कल्पना नोपपद्यते। कुतः ? अनुपलब्धतत्त्वस्य श्रद्धानाभावात्, कथम्? रसायनवत् । यथा अत्यन्तपरोक्षरसायनत त्वफलस्यं न रसायने श्रद्धानं दृष्टम्,
तथा अनधिगतजीवादितत्त्वस्य न तत्र श्रद्धानमिति नैसर्गिकसम्यग्दर्शनाभावः । २५ "शद्रवेदभक्तिवदिति चेत्, न; वैषम्यात् ।। स्यादेतत्-यथा शूद्रस्याऽनधिगतवेदार्थस्य
वेदार्थ आत्यन्तिकी भक्तिः,तथाऽनुपलब्धजीवादितत्त्वस्य श्रद्धानमिति; तन्न; किं कारणम् ? वैषम्यात् । युज्यते शूद्रस्य भारतादिश्रवणात् तज्ज्ञ वचनानुवृत्त्यादिभिश्च वेदार्थभक्तिः, नासो नैसर्गिकी । इह तु नैसगिकी रुचिरिष्टेति वैषम्यम् । अथवा, सम्यक्त्वाधिकारात् जीवादि
पदार्थतत्त्वोपलब्धिपूर्वकेण सम्यग्दर्शनेन मोक्षकारणेनेह भवितव्यम्, न च शूद्रस्य तादृशं ३० श्रद्धानमिति वैषम्यम् ।
१५
१प्रार्हतमतमभिधीयते-पा०, ब०, द०, मु० । प्रातमधीयन्ते ता०।२-विराग -१०। ३ यथास्वभावैः प्रा०, ब०, मु०।४ प्रात्मशु-१०।५-ते पू-पा०, ब०, २०, म०, ता०।६ हेतुः। ७कस्य क्रि-पा०, ब०, २०, मु०, ता०। ८ स्वरूप। ६ आरोग्य। १० अत्राचार्याभिप्रायानभिज्ञः कश्चिज्जनाभासः तं प्रत्युत्तरं ददाति, तमप्याचार्यः प्रतिषेषयति । ११ प्रात्यन्तिकभ- प्रा०, २०, २०, मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org