________________
१२]
प्रथमोऽध्यायः
धनवानिति । क्वचिदभिधेये वर्तते शब्दार्थ संबन्ध इति । एवमर्थशब्दस्यानेकार्थाभिधायित्वे सन्देहः - 'कस्यार्थस्य श्रद्धानं सम्यग्दर्शनम्' इति ?
सर्वानुग्रहाददोष इति चेत्; न; असदर्थविषयत्वात् ॥ २०॥ स्यादेतत्- नायं दोषः सर्वार्थप्रसङग इति, अस्तु सर्वार्थविषयं श्रद्धानं सम्यग्दर्शनम्, तथा सति सर्वानुग्रहः कृतो भवति । कश्चेदानीं भवतो मत्सरः सर्वो लोकोऽभ्युदये न युज्यतामिति ? तन्न; किंकारणम् ? असदर्थ- ५ विषयत्वात् । न खलु कश्चिन्नो मत्सरः । असदर्थविषयं हि तच्छुद्धानं संसारकारणमिति । अतः सर्वानुग्रहार्थमेव तत्त्वेन विशिष्यते ।
अर्थग्रहणादेव तत्सिद्धिरिति चेत्; न; विपरीतग्रहणदर्शनात् ॥ २१॥ स्यादेतत्-अर्थत इत्यर्थो निश्चीयत इत्यर्थः । न च मिथ्यावादिप्रणीता अर्थाः; 'असत्त्वात् । तस्मादर्थग्रहणादेव तत्त्वसंप्रत्ययात् नार्थस्तत्त्वग्रहणेनेति; तन्त्र; किं कारणम् ? विपरीतग्रहणदर्शनात् । यथा पित्तो- १० दयाकुलितकरणः पुमान् मधुररसं कटुकं मन्यते, तथात्मा मिथ्याकर्मो दयदोषाद् अस्तित्वनास्तित्वनित्यत्वाऽनित्यत्वाऽन्यत्वाऽनन्यत्वाद्ये कान्तरूपेण मिथ्या 'अध्यवस्यति । अतः तन्निराकरणार्थं तत्त्वग्रहणमिति
२१
अर्थग्रहणं किमर्थम् ? ननु तत्त्वान्येवार्थ:' इत्यर्थानां तत्त्वसामानाधिकरण्यात् तत्त्ववचनैव संप्रत्ययः सिद्धः ? उच्यते-
अर्थग्रहणमव्यभिचारार्थम् | २२| अर्थ ग्रहणं क्रियते अव्यभिचारार्थम् ।
तत्त्वमिति श्रद्धानमिति चेत्; एकान्तनिश्चितेऽपि प्रसङ्गः | २३ | यदि 'तत्त्वमिति श्रद्धानं तत्त्वश्रद्धानम्' इत्युच्यते; एकान्तनिश्चितेऽपि प्राप्नोति । एकान्तवादिनोऽपि हि 'नास्त्यात्मा ' इत्येवमादि ' तत्त्वम्' इति श्रद्दधति ।
तत्त्वस्य श्रद्धानमिति चेत्; भावमात्रप्रसङ्गः । २४ | यदि 'तत्त्वस्य श्रद्धानं तत्त्वश्रद्धानम्' २० इत्युच्यते; भावमात्रप्रसङ्गः स्यात् । तत्त्वं भावः सामान्यमिति केचित् कथयन्ति । द्रव्यत्वगुणत्वकत्वादिसामान्यं द्रव्यादिभ्योऽर्थान्तरम्, तस्य श्रद्धानं सम्यग्दर्शनं प्राप्नोति । न हि द्रव्यादिभ्योऽन्यत् सामान्यं युक्तिमदिति परीक्षितमेतत् ।
अथवा, तत्त्वमेकत्वमित्यर्थः “पुरुष एवेदं सर्वम् [ऋग्० ८|४|१७] इत्यादि, तस्य श्रद्धानं सम्यग्दर्शनं प्राप्नोति । नचादो युक्तम्, क्रियाकारकभेदलोपप्रसङ्गादिति ।
तत्त्वेन श्रद्धानमिति चेत्; कस्य कस्मिन्वेति प्रश्नानिवृत्तिः ॥ २५ ॥ यदि 'तत्त्वेन श्रद्धानम्' इत्युच्यते; कस्य कस्मिन्वेति प्रश्नो न विनिवर्तते । तस्मात् सूक्तम् - 'अर्थग्रहणमव्यभि - चारार्थम्' इति ।
१ प्रतस्वात् प्रा०, ब०, म० । २ भावेन भाववतोsभिधानं तदव्यतिरेकाविति मत्त्वा भावस्तत्त्वं भावार्थ: । ३ वैशेषिकाः । ४ 'अर्थान्तरात्संप्रत्ययः' इत्यादि प्राक् प्रबन्धेन । ५ तथा चोक्तं स्वामिनाप्रकान्तपक्षेऽपि दृष्टो भेवो विरुध्यते । कारकाणां क्रियायाश्च नेक स्वस्मात् प्रजायते ।। ( प्राप्तमी ० २१) इति । ६ कस्मिन्निति श्र० । ७ इच्छाश्रज्ञानमित्यपरे वर्णयन्ति प्रा०, ब०, मु०, द० ।
Jain Education International
१५
"इच्छा श्रद्धानमित्यपरे । २६| इच्छा श्रद्धानमित्यपरे वर्णयन्ति ।
तदयुक्तम्, मिथ्यादृष्टेरपि प्रसङ्गात् । २७॥ यतो मिथ्यादृष्टयो बाहुश्रुत्यप्रचिख्याप - ३०
For Private & Personal Use Only
२५
www.jainelibrary.org