________________
तत्त्वार्थवार्तिके
[१२ कर्माभिधायित्वेप्यदोष इति चेत् न; मोक्षकारणत्वेन स्वपरिणामस्य विवक्षितत्वात् ।१०। स्यादेतत्-सम्यक्त्वकर्मपुद्गलाभिधायित्वेप्यदोष इति; तन्न; किं कारणम् ? मोक्षकारणत्वेन स्वपरिणामस्य विवक्षितत्वात् । औपशमिकादिसम्यग्दर्शनमात्मपरिणामत्वात् मोक्षकारणत्वेन विवक्ष्यते न च सम्यक्त्वकर्मपर्यायः, पौद्गलिकत्वेऽस्य परपर्यायत्वात् ।।
स्वपरनिमित्तत्वादुत्पादस्येति चेत्, न; उपकरणमात्रत्वात् ।११॥ स्यादेतत्-स्वपरनिमित्त उत्पादो दृष्टो यथा घटस्योत्पादो मुनिमित्तो दण्डादिनिमित्तश्च, तथा सम्यग्दर्शनोत्पाद आत्मनिमित्तः सम्यक्त्वपुद्गलनिमित्तश्च, तस्मात्तस्यापि मोक्षकारणत्वमुपपद्यते इतिः तन्नः किं कारणम् ? उपकरणमात्रत्वात् । उपकरणमात्रं हि बाह्यसाधनम् । किञ्च,
आत्मपरिणामादेव तद्रसघातात् ।१२। यदिदं दर्शनमोहाख्यं कर्म तदात्मगुणघाति, १० कुतश्चिदात्मपरिणामादे'वोपक्षीणशक्तिकं सम्यक्त्वाख्यां लभते। अतो न तदात्मपरिणामस्य
प्रधानं कारणम्, आत्मैव स्वशक्त्या दर्शनपर्यायेणोत्पद्यत इति तस्यैव मोक्षकारणत्व युक्तम् । किञ्च,
. अहेयत्वात् स्वधर्मस्य ।१३। न हीयते न परित्यज्यत इत्यहेयोऽयमाभ्यन्तर आत्मनः सम्यक्त्वपरिणामः, यतः सत्याभ्यन्तरे आत्मनः सम्यक्त्वपरिणामे नियमेनात्मा सम्यग्दर्शनपर्यायेणाविर्भवति । बायस्तु हेयः कर्मपुद्गलः, तमन्तरेणापि क्षायिकसम्यक्त्वपरिणामात् । किञ्च,
प्रधानत्वात् ।१४। आभ्यन्तर आत्मीयः सम्यग्दर्शनपरिणामः प्रधानम्, सति तस्मिन् बाहयस्योपग्राहकत्वात् । अतो बाहय आभ्यन्तरस्योपग्राहक: पारार्थ्यन वर्तत इत्यप्रधानम् । किञ्च,
प्रत्यासत्तेः।१५। प्रत्यासन्नं हि कारणमात्मपरिणामो मोक्षस्य तादात्म्येनाविर्भावात्, नतु सम्यक्त्वं कर्म, विप्रकृष्टान्तरत्वात् तादात्म्ये नाऽपरिणामाच्च । तस्मात् अहेयत्वात् प्रधानत्वात् प्रत्यासत्तेश्च मोक्षस्य कारणमात्मपरिणामो युक्तो न कर्मेति ।
अल्पबहुत्वकल्पनाविरोध इति चेत्, न; उपशमाद्यपेक्षस्य सम्यग्दर्शनत्रयस्यैव तदुपपत्तेः।१६। स्यादेतत्-सम्यग्दर्शनस्यात्मपरिणामत्वे अल्पबहुत्वकल्पनाविरोध इति; तन्न; किं कारणम् ? २५ उपशमाद्यपेक्षस्य सम्यग्दर्शनत्रयस्यैव तदुपपत्तेः । सर्वेषु स्तोका उपशमसम्यग्दृष्टयः । ससारिणः
क्षायिकसम्यग्दृष्टयोऽसंख्येयगुणाः । क्षायोपशमिकसम्यग्दृष्टयोऽसंख्येयगुणाः । सिद्धाः क्षायिकसम्यग्दृष्टयोऽनन्तगुणा इति । तस्मात् सम्यग्दर्शनमात्मपरिणामं श्रेयोऽभिमुखमध्यवस्यामः ।
___ तत्त्वाग्रहणम्, अर्थश्रद्धानमित्यस्तु लघुत्वात् ।१७। कश्चिदाह-तत्त्वग्रहणमनर्थकम्, अर्थश्रद्धानमित्येवास्तु । कुतः.? लघुत्वादिति ।।
न; सर्वार्थप्रसङगात्।१८। नैतद्युक्तम्। कुतः? सर्वार्थप्रसङगात् । तत्त्वग्रहणादृते मिथ्यावादिप्रणीतेषु सर्वार्थेषु श्रद्धानं सम्यग्दर्शनं प्राप्नोति ।
___ सन्देहाच्च, अर्थशब्दस्याऽनेकार्थत्वात् ।१९। अर्थशब्दोऽर्थमनेकार्थ:-क्वचिद् द्रव्यगुणकर्मसु वर्तते *"अर्थ इति व्यगुणकर्मसु" [वशे० ७।२।३] इति वचनात् । क्वचित् प्रयोजने वर्तते 'किमर्थमिहागमनं भवतः ?' किं प्रयोजनमिति । क्वचिद्धने वर्तते अर्थवानयं देवदत्तः
१-देवापक्षीण-प्रा०, ब०, २०, म०। २ परेऽर्थे-मु०मा०, ब०, २०। परोऽर्थे भा० २ । ३-म्यवापरि-मा०,०,०म०। ४सक्तम-संखावलिहिवपल्ला खाया तत्तो य वगुवसमया। प्रावलि-प्रसंखगणिदा प्रसंगणहीणया कमसो। (गो० जी०, गा०६५७) इति ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org