SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १२ 1 प्रथमोऽध्यायः अमीषां मोक्षकारणसामान्ये सत्यविशिष्टानां विशेषप्रतिपत्त्यर्थमिदमाह -- तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ||२|| सम्यगिति कोऽयं शब्द: ? सम्यगिति प्रशंसार्थी निपातः क्वयन्तो वा ॥ १॥ सम्यगित्ययं निपातः प्रशंसार्थो वेदितव्यः सर्वेषां प्रशस्तरूपगतिजातिकुलायुर्विज्ञानादीनाम् आभ्युदयिकानां मोक्षस्य च प्रधानकारणत्वात् । प्रशस्तं दर्शनं सम्यग्दर्शनम् । ननु च * ' सम्यगिष्टार्थतत्त्वयोः” [ ] इति वचनात् प्रशंसार्थाभाव इति; तन्न; अनेकार्थत्वान्निपातानाम् । अथवा, सम्यगिति तत्त्वार्थो निपातः, तत्त्वं दर्शनं सम्यग्दर्शनम् । अविपरीतार्थविषयं तत्त्वमित्युच्यते । अथवा, क्वयन्तोऽयं शब्दः, समञ्चतीति सम्यक् । यथा 'अर्थोऽवस्थितस्तथैवावगच्छतीत्यर्थः । अथ किमिदं दर्शनमिति ? करणादिसाधनो दर्शनशब्दः उक्तः |२| दृशेः करणादिसाधने युटि दर्शनशब्दो १० व्याख्यातः । दृशेरालोकार्थत्वादभिप्रेतार्थासंप्रत्यय इति चेत्; न; अनेकार्थत्वात् ॥३॥ स्यादेतत् - दृशिरयमालोकार्थे वर्त्तते । आलोकश्चेन्द्रियानिन्द्रियार्थप्राप्तिः, नचासाविहाभिप्रेतः श्रद्धानमिष्टम्, न तस्यार्थस्य संप्रत्ययोऽस्तीति । तन्नः किं कारणम् ? अनेका 'त्वात्, इह श्रद्धानमिष्टमभिसंबध्यते । कथं पुनर्ज्ञायते आलोक इह नेष्टः श्रद्धानमिष्टमिति ? अत उत्तरं पठति मोक्षकारणप्रकरणाच्छ्रद्धानगतिः ॥४। मोक्षकारणं प्रकृतम् । तत्त्वार्थविषयं श्रद्धानं मोक्षस्य कारणं नालोक "इत्यतः प्रकरणाच्छ्रद्धा नस्यार्थस्य गतिर्भवति । अथ तत्त्वमित्यनेन किं प्रत्याययते ? १९ प्रकृत्यपेक्षत्वात् प्रत्ययस्य 'भावसामान्य संप्रत्ययः तत्त्ववचनात् ॥ ५ ॥ तदित्येषा प्रकृतिः सामान्याभिधायिनी सर्वनामत्वात् । प्रत्ययश्च भावे उत्पद्यते । कस्य भावे ? तदित्यनेन योऽर्थं २० उच्यते । कश्चासौ ? सर्वोऽर्थः । अतस्तदपेक्षत्वाद्भावस्य भावसामान्यमुच्यते तत्वशब्देन । aise यथा अवस्थितस्तथा तस्य भवनमित्यर्थः । सत्वात्मपरिणामः | ८ | स तु 'श्रद्धानशब्दवाच्योऽर्थः करणादिव्यपदेशभाग् आत्मपरिणामो वेदितव्यः । तत्त्वेनार्यत इति तत्त्वार्थः | ६ | अर्थते गम्यते ज्ञायते इत्यर्थः, तत्त्वेनार्थस्तत्त्वार्थः । येन भावेनार्थो व्यवस्थितस्तेन भावेनार्थस्य ग्रहणं यत्सन्निधानाद्भवति तत्सम्यग्दर्शनम् । श्रद्धानशब्दस्य करणादिसाधनत्वं पूर्ववत् ॥७॥ यथा दर्शनशब्दस्य करणादिसाधनत्वं २५ व्याख्यातं तथा श्रद्धानशब्दस्यापि वेदितव्यम् । १ अर्यो व्यव - मु० आ०, ब० द० । २ निश्चयः । ३ -ष्ट इति ता०, श्र०, ता०, श्र० । ५ नगतिर्भ-प्रा०, ब०, द०, मु०, ता० । ६ सत्तासामान्य निश्चयः । ८ श्रद्धानया - ता० । ε-मे तदु - श्र० । Jain Education International ५ वक्ष्यमाणनिर्देशादिसूत्रविवरणात् पुद्गलद्रव्यसंप्रत्यय इति चेत्; न; आत्मपरिणामेऽपि' तदुपपत्तेः ।९। स्यादेतत्-वक्ष्यमाणनिर्देशादिसूत्र विवरणात् पुद्गलद्रव्यस्य संप्रत्ययः प्राप्नोति; ३० तन्न; किं कारणम् ? आत्मपरिणामेऽपि तदुपपत्तेः । किं तत्त्वार्थश्रद्धानम् ? आत्मपरिणामः । कस्य ? आत्मन इत्येवमादि । For Private & Personal Use Only १५ ४ इत्यर्थः ७ श्रात्मनः । www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy