________________
[१११
तत्त्वार्थवार्तिके अनुपलब्धस्वतत्त्वेऽर्थे श्रद्धानानुपपत्तिः अविज्ञातफलरसोपयोगवत् ।७२॥ यथा नाविज्ञाते फले 'तद्रसोपयोग: अमुष्य फलस्य च सन्निष्पादयिता' इति श्रद्धानमस्ति, तथा नाविज्ञातेषु जीवादिषु श्रद्धानमस्तीति श्रद्धानाभावः स्यात् । किञ्च,
____ आत्मस्वरूपाभावप्रसङगात् ।७३। यदि सम्यग्दर्शनलाभे ज्ञानं' भजनीयत्वाद् असत, ५ विरोधात् मिथ्याज्ञाननिवृत्तौ सम्यग्ज्ञानस्य चाभावाज्ज्ञानोपयोगाभाव आत्मनः प्रसक्तः । ततश्च लक्षणाभावाल्लक्ष्यस्यात्मनोऽप्यभावः स्यात्, तदभावाच्च मोक्षमार्गपरीक्षा व्यर्थेति ।
न वा; यावति ज्ञानमित्येतत् परिसमाप्यते तावतोऽसंभवान्नयापेक्षं वचनम् ।७४। न वा एष दोषः । किं कारणम् ? यावति ज्ञानमित्येतत् परिसमाप्यते तावतोऽसंभवान्नयापेक्षमिदं वचनम्
'भजनीयमुत्तरम्' इति । क्व च ज्ञानमित्येतत् परिसमाप्यते ? श्रुतकेवलयोः, यतः श्रुतकेवल१० ज्ञानग्राही शब्दनयः श्रुतकेवले एवेच्छति नान्यज्ज्ञानम् अपरिपूर्णत्वादिति । तदपेक्ष्य संपूर्ण
द्वादशाङ्गचतुर्दशपूर्वलक्षणं श्रुतं केवलं च भजनीयमुक्तम् । तथा पूर्वसम्यग्दर्शनलाभे देशचारित्रं संयतासंयतस्य, सर्वचारित्रं च प्रमत्तादारभ्य सूक्ष्मसाम्परायान्तानां यच्च यावच्च नियमादस्ति, संपूर्ण यथाख्यातचारित्रं तु भजनीयम् ।।
पूर्वसम्यग्दर्शनज्ञानलाभे भजनीयमुत्तरमिति चेत् न; निर्देशस्याऽगमकत्वात् ।७५। १५ स्यादेतत्-नाज्ञानपूर्वकश्रद्धानप्रसङ्गोऽस्ति । कुतः ? पूर्वसम्यग्दर्शनज्ञानलाभे चारित्रमुत्तरं
भजनीयमित्यभिसम्बन्धादिति; तन्न; किं कारणम् ? निर्देशस्यागमकत्वात् । युक्तोऽयमर्थो न तु तस्य निर्देशो गमकः, 'पूर्वस्य लाभे' इति 'पूर्वर्योः' इति हि वक्तव्यं स्यात् । अथ सामान्यनिर्देशादुभयगतिः कल्प्यते; नैवं शक्यम्; व्यवस्थाविशेषस्य विवक्षितत्वात् । इतरथा हि
'उत्तरेऽपि तथा प्रक्लृप्तौ तद्दोषानतिवृत्तिः स्यात् । तस्मात्पूर्वोक्त एवार्थो नयापेक्षं वचनमिति । २० अथवा, क्षायिकसम्यग्दर्शनस्य लाभे क्षायिकं सम्यग्ज्ञानं भजनीयम् । अथवा, युगपदात्मलाभे
साहचर्यादुभयोरपि पूर्वत्वम्, यथा साहचर्यात् पर्वतनारदयोः, पर्वतग्रहणेन नारदस्य ग्रहणं नारदग्रहणेन वा पर्वतस्य तथा सम्यग्दर्शनस्य सम्यग्ज्ञानस्य वा अन्यतरस्यात्मलाभे चरित्रमुत्तरं भजनीयम् ।
इति तत्त्वार्थवातिक व्याख्यानालङकारे प्रथमेऽध्याये द्वितीयमाह्निकम् ॥२॥
Www
१ प्रारोग्यलक्षणस्य। -स्य रसं संपादयतेति प्रा०, ब०, द०, मु०। २ ज्ञानं भजनीयत्वादसिद्विरो-द०। ज्ञानस्य भजनीयत्वादसिद्धिरो-श्र०।३ क्वचन ज्ञा-पा०, ब०, द०, मु०। ४ तदपेक्ष प्रा०, ब०, ८०, मु०। तदपेक्ष्यं श्र०, ता०। ५-त्रं प्र-प्रा०, ब०, द०, मु०, ता०। ६ ज्ञापकः। ७ उत्तरे हि तथा श्र०। उत्तरमित्यस्मिन् सामान्यकल्पनायां सत्याम् । ८-शनलाभे प्रा०, ब०, ता०, द०, मु०। ६-स्य ग्रहणं तथा प्रा०, ब०, ता०, २०। १० -स्यान्य- प्रा०, ब०, ता०, ८०, मु०, श्र। ११-कव्या-प्रा०, २०, ज०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org