________________
१।१]
प्रथमोऽध्यायः अर्थभेदाच्च ।६४। किम् ? 'नकत्वम्' इति वर्तते । 'ज्ञानस्य तत्त्वावबोधोऽर्थः, चारित्रस्य कर्मादानहेतुक्रियाविशेषोपरमोऽर्थः' इत्यतो नानात्वम् ।
कालभेदाभावो नाभेदहेतुः गतिजात्यादिवत् ।६५। न'कालभेदाभावोऽर्थाभेदहेतुाय्यः । कथम् ? गतिजात्यादिवत् । यथा यदैव देवदत्तजन्म तदैव मनुष्यगतिपञ्चेन्द्रियजातिशरीरवर्णगन्धादीनां जन्म, नान्यो देवदत्तजन्मकालः, अन्यश्च मनुष्यगत्यादिपर्यायजन्म- ५ कालः । न चैककालत्वात् मनुष्यगत्यादीनामेकत्वम् । यस्य पुनः कालभेदाभाव एकत्वहेतुरिष्टः तस्य मनुष्यगत्यादिपर्यायाणामेकत्वप्रसङ्गः । न चेष्यते, अतो न कालभेदाभावाज्ज्ञानचारित्रयोरेकत्वम् ।
उक्तं च ।६६। किमुक्तम् ? 'उभयनयसद्भावात् स्यादेकत्वं स्यानानात्वम्' इति ।
लक्षणभेदात्तेषामेकमार्गत्वानुपपत्तिरिति चेत्, न; परस्परसंसर्गे सत्येकत्वं प्रदीपवत् ।६७। १० म्यादेतत्-नेषां सम्यग्दर्शनादीनामेकमार्गत्वं नोपपद्यते। कुतः ? लक्षणभेदात् । नहि भिन्नलक्षणानामेकत्वं युज्यते । ततस्त्रयोऽमी मोक्षमार्गा: प्रसक्ता इति; तन्न; किंकारणम् ? परस्परसंसर्गे सत्येकत्वम् । कथम् ? प्रदीपवत् । यथा परस्परविलक्षणवर्तिस्नेहानलार्थानां बायाभ्यन्त परिणामकारणापादितसंयोगपर्यायाणां समुदयो भवत्येकः प्रदीपो न त्रयः, तथा परस्परविलक्षणसम्यग्दर्शनादित्रयसमुदये भवत्येको मोक्षमार्गो न त्रयः । किञ्च, १५ ___ सर्वेषामविसंवादात् ।६८। विलक्षणानामेकत्वावाप्तौ न प्रतिवादिनो विसंवदन्ते। केचित्तावदाहुः-'प्रसादलाघवशोषतापावरणसादनादिभिन्नलक्षणानां सत्त्वरजस्तमसां साम्ये प्रधानमेकम्, न तेषां त्रित्वात् प्रधानस्य त्रैविध्यमिति । "अपर आहुः-कक्खडतादीनां चतुर्णा भूतानां भौतिकानां च वर्णादीनां विलक्षणानां समुदय एको रूपपरमाणुः, न तेषां भेदात् परमाणोरनेकत्वम् । तथा रागादीनां धर्माणां प्रमाणप्रमेयाधिगमरूपाणां च विलक्षणानां समुदय २० एक विज्ञानम्, न तेषां भेदाद्विज्ञानभेद इति। "इतर आहुः-चित्राणां तन्तूनां समुदयश्चित्रपट एकः, न तेषां भेदात्पटस्य भेद इति। तद्वदिहापि सम्यग्दर्शनादीनां भिन्नलक्षणानां समुदय एको मोक्षमार्ग इति को विरोधः ?
एषां पूर्वस्य लाभे भजनीयमुत्तरम् ।६९। एषां सम्यग्दर्शनादीनां पूर्वस्य लाभे 'भजनीयमुत्तरं वेदितव्यम् ।
उत्तरलाभे तु नियतः पूर्वलाभः ७०। उत्तरस्य तु लाभे नियतः पूर्वलाभो द्रष्टव्यः । सम्यग्दर्शनज्ञानचारित्राणां पाठं प्रति पूर्वत्वमुत्तरत्वं च। पूर्वस्य सम्यग्दर्शनस्य लाभे ज्ञानमुत्तरं भजनीयम्, उत्तरज्ञानलाभे तु नियतः पूर्वसम्यग्दर्शनलाभः । तथा पूर्वज्ञानलाभे उत्तरं चारित्रं भजनीयम्, उत्तरचारित्रलाभे तु नियतः सम्यग्दर्शनज्ञानलाभः।
तदनुपपत्तिः, अज्ञानपूर्वकश्रद्धानप्रसङगात् ।७१। 'पूर्वस्य लाभे भजनीयमुत्तरम्' इत्ये- ३० तस्याऽनुपपत्तिः । कुतः ? अज्ञानपूर्वकश्रद्धानप्रसङ्गात् । यदि पूर्वसम्यग्दर्शनलाभे उत्तरज्ञानलाभो भजनीयः, ननु ज्ञानाभावादज्ञानपूर्वकश्रद्धानप्रसङ्गः । किञ्च ।।
१ कालभेवाभावः अर्थभेद- ता० । कालभेदाभावः नाभेद श्र० । २ समुदये भ-पा०, ब०, २०, म०। ३ सांख्याः। ४ "सत्त्वं लघु प्रकाशकमिष्टवष्टम्भकं चलंच रजः। गुरुवरणकमेव तमः साम्यावस्था भवत् प्रकृतिः ॥” सांख्यका०१३। ५ बौद्धाः। ६ काकवडता-मु०। काक्ख उता-प्रा०, ब०, २०। कर्कशतेति पाठान्तरम् । तुलना-"यत्किञ्चिद बाह्यं कक्खटत्वं खरगतमनुपातम्, प्रयमुच्यते बाह्यः पृथिवी धातुः" -शिक्षासमु० प० २४५। ७ वैशेषिकाः। ८ विकल्पनीयम् । ६ ज्ञानालाभाद-श्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org