________________
[११
तस्वार्थवार्तिके वनेकार्थग्रहणकविज्ञानाभावात् असति विपर्यये बन्धाभावः । तत एव पदार्थविशेषानुपलब्धेर्मोक्षाभावः । नहयेकार्थग्राहि विज्ञानं तदन्तरमवच्छिनत्ति।
ज्ञानदर्शनयोयुगपत्प्रवृत्तेरेकत्वमिति चेत्, न तत्त्वावायश्रद्धानभेदात् तापप्रकाशवत् ।६०। स्यादेतद्-ज्ञानदर्शनयोरेकत्वम् । कुतः ? युगपत्प्रवृत्तेरिति; तन्न; किं कारणम् ? तत्त्वावायश्रद्धानभेदात् । कथम् ? तापप्रकाशवत्। यथा तापप्रकाशयोयुगपदात्मलाभेऽपि दाहद्योतनसामर्थ्य भेदान्नैकत्वम्, तथा ज्ञानदर्शनयोस्तत्त्वावायश्रद्धानभेदान्नकत्वम् । तत्त्वस्य हयवगमो ज्ञानम्, श्रद्धानं दर्शनमिति ।
दृष्टविरोधाच्च ।६१॥ यस्य मतं युगपदात्मलाभ एकत्वे हेतुरिति तस्य दृष्टविरोध आपद्यते । दृष्टं हि गोविषाणादीनां युगपदुत्पद्यमानानामपि नानात्वम् । - उभयनयसद्भावे अन्यतरस्याश्रितत्वाद्वा रूपादिपरिणामवत् ।६२। उभयनयसद्भावे अन्यतरस्याश्रितत्वाद्वा न दोषः । कथम् ? रूपादिपरिणामवत् । यथा परमाण्वादिपुद्गलद्रव्याणां बाहयाभ्यन्तर परिणामकारणापादिते युगपद् रूपादिपरिणामेऽपि न रूपादीनामेकत्वं तथा ज्ञानदर्शनयोरपि ।
___ अथवा, उभयनयसद्भावेऽन्यतरस्याश्रितत्वात् । यथा रूपादिपरिणामानां द्रव्याथिक१५ पर्यायाथिकयोरन्यतरगुणप्रधानभावार्पणात् स्यादेकत्वं स्यान्नानात्वम् । कथम् ? इह पर्याया
थिकगुणभावे द्रव्यार्थिकप्राधान्यात् पर्यायार्थानर्पणात् अनादिपारिणामिकपुद्गलद्रव्यार्थादेशात् स्यादेकत्वम्, यथा रूपपर्यायः पुद्गलद्रव्यं तथा रसादयोऽपि द्रव्यार्थादेशात् पुद्गलद्रव्यम् । तेषामेव द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात् द्रव्यानर्पणात् प्रतिनियतरूपादिपर्यायार्थे
नापितानां स्यादन्यत्वम्, यतोऽन्यो रूपपर्यायः अन्ये च रसादयः । तथा ज्ञानदर्शनयोरनेन २० विधिना अनादिपारिणामिकचैतन्यजीवद्रव्यार्थादेशात् स्यादेकत्वम्, यतो द्रव्यार्थादेशाद् यथा
ज्ञानपर्याय आत्मद्रव्यं तथा दर्शनमपि । तयोरेव प्रतिनियतज्ञानदर्शनपर्यायार्पणात् स्यादन्यत्वम्, यस्मादन्यो ज्ञानपर्यायोऽन्यश्च दर्शनपर्यायः ।
ज्ञानचारित्रयोरकालभेदादेकत्वम् अगम्यावबोधवदिति चेत्, न; आशुत्पत्तौ सूक्ष्मकालाप्रतिपत्तेः उत्पलपत्रशतव्यधनवत् ।६३। स्यादेतत्-ज्ञानचारित्रयोरेकत्वम् । कस्मात् ? अकाल२५ भेदात् । कथम् ? अगम्यावबोधवत् । यथा केनचित् मोहोदयापादिताऽन्याङ्गनाभिसरणो
त्सुकमतिना पुसा मेघोदयोद्भतबहलान्धकारायां रात्रौ वीथ्यन्तराले 'मातृपुश्चली 'स्वाभिलर्षिता' इति स्पृष्टा, तदैव विद्युता च विद्योतितम् । तेन द्योतेन 'मातेयम्' इति तस्य ज्ञानं यदोत्पन्नं तदैव अगम्यावबोधाद् अगम्यागमननिवृत्तिः, न अगम्यावबोध-अगम्यागमननिवृत्त्योः
कालभेदोऽस्ति । तथा यदैव ज्ञानावरणक्षयोपशमाज्जीवेषु ज्ञानं 'जीवाः' इत्याविर्भवति, ३० तदैव ते न हिंस्याः' इति जीवे हिंसाप्रत्ययस्य निवृत्तिः, निवृत्तिश्च चारित्रम् । न च जीव
ज्ञान-हिंसानिवृत्त्योः कालभेदोऽस्तीति; तन्न; किं कारणम् ? आशूत्पत्तौ सूक्ष्मकालाप्रतिपत्तेः । तत्राप्यस्त्येव कालभेदः सौक्ष्म्यात्तु न प्रतीयते । कथम् ? उत्पलपत्रशतव्यधनवत् । यथा उत्पलपत्रशतव्यधनक्रम आसंख्येयसमयिकः सर्वज्ञप्रत्यक्षोऽतिसूक्ष्मोऽस्ति न तु विभाव्यते
छद्मस्थैः, यतो यावदेकमुत्पलपत्रमासश्छित्त्वा द्वितीयं छिनत्ति तावदसंख्येयाः समया अतीता ३५ इति कालसूक्ष्मोपदेशः । तथा अन्योऽगम्यावबोधकालः, अन्यश्च निवृत्तिकाल: ।
१-रोधात् तस्य भा० १। २-रकार -श्र० । ३ जीवाविद्रव्या -ता०। ४ निन्धे पाषाणकेति समासः। ५ कारणस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org