________________
१५
११]
प्रथमोऽध्यायः प्रव्रज्याद्यनुष्ठानाभावप्रसङगश्च ।५३। यदि ज्ञानादेव मोक्षः, ननु ज्ञान एव यत्नः कार्यः, शिरस्तुण्डमुण्डन-काषायाम्बरधारणादिलक्षणप्रवज्या-यम-नियम-भावनाद्यभावप्रसङगः स्यात् ।
ज्ञानवैराग्यकल्पनायामपि ।५४। किम् ? 'अवस्थानाभावादुपदेशाभावः' इत्यादि । पदार्थपरिज्ञाने सति विषयानभिष्वङ्गलक्षणे च वैराग्य आप्तस्य तत्क्षण एव मोक्षोपपत्तेः । किञ्च,
नित्यानित्य कान्तावधारणे तत्कारणासंभवः ।५५। नित्या एवार्था अनित्या एव वेत्येकान्तावधारणे तत्कारणा सम्भवः तत्कारणस्य ज्ञानस्य वैराग्यस्य वाऽसंभवः । तद्यथा
नित्यत्वैकान्ते विक्रियाभावाद् ज्ञानवैराग्याभावः ।५६। विक्रिया द्विविधा-ज्ञानादिविपरिणामलक्षणा, देशान्तरसंक्रमरूपा च । येषां नित्य एवात्मा सर्वगतश्चेति दर्शनम्, तेषामुभय्यपि सा नास्ति । ततश्चतुष्टयत्रयद्वयसन्निकर्षजविज्ञानाभावाद् वैराग्यपरिणामाभावाच्च १० पूर्वापरकालतुल्यवृत्तेरात्मन आकाशस्येव मोक्षाभावः । समवायादिति चेत् न तस्य प्रत्याख्यातत्वात्।
क्षणिक कान्तेऽप्यवस्थानाभावात् ज्ञानवैराग्यभावनाभावः ॥५७। येषां मतम्-"क्षणिकाः सर्वसंस्काराः” [ ] इति'; तेषामप्युत्पत्त्यनन्तरं विनाशे सति ज्ञानादीनामवस्थानं नास्ति । नच तेभ्योऽन्यदवस्थास्नु वस्तु विद्यते । अतस्तदभावाज्ज्ञानवैराग्यभावनाभावः । तत १५ एवोत्पत्त्यनन्तरं निरन्वयविनाशाभ्युपगमात् परस्पर संश्लेषाभावे निमित्तनैमित्तिकव्यवहारापलवाद् ‘अविद्याप्रत्ययाः संस्काराः' इत्येवमादि विरुध्यते । सन्तानादिकल्पनायां वा अन्यत्वानन्यत्वयोरनेकदोषानुषङ्गः ।
विपर्ययाभावः प्रागनुपलब्धः उपलब्धौ वा बन्धाभावः ।५८॥ इह लोके प्रागनुभूतस्थाणुपुरुषविशेषस्य प्रकाशाभावात् अभिभवात् करणक्लमाद्वा 'विशेषानुपलब्धौ विपर्ययो दृष्टः । २० न चावनितलभवनसंभूतस्य प्रागप्रतीततदन्तरस्य विपर्ययप्रत्ययो भवति । नच तथा अनादौ संसारेऽनभिव्यक्तशक्तेः पुरुषस्य गुणपुरुषान्तरोपलब्धिरस्ति, अतः प्रागनुपलब्धेर्नास्ति विपर्ययः । तथा सर्वभावेष्वनित्यानात्मकाशुचिदुःखेषु नित्यसात्मकशुचिसुखरूपेण विपर्ययो नास्ति, प्रागननुभूतविशेषत्वात् । यदि वा क्वचिदप्रसिद्धसामान्यविशेषस्य कस्यचिद्विपर्ययो दृष्टः सोऽभिधीयताम् ? न नोच्यते अतो विपर्ययाभावाद् बन्धाभावः । तत्र यदुक्तम्-'विपर्ययाद् २५ बन्धः' इति तद् व्याहन्यते । अथ प्राक् तद्विषेषोपलब्धिरभ्युपगम्यते; ननु तदैव तद्धेतुकेन मोक्षेण भवितव्यमिति बन्धाभावः स्यात् । किञ्च,
प्रत्यर्थवशत्तित्वाच्च ।५९। 'विपर्ययाभावः' इत्यनुवर्तते । येषां दर्शनं प्रत्यर्थवशवति विज्ञानमिति तेषां पुरुषविषयं विज्ञानं न स्थाणुमवगृह्णाति, स्थाणुविषयं च यद्विज्ञानं न तत्पुरुषमवबुध्यते, अतः परस्परविषयसंक्रमाभावान्न संशयो न विपर्ययः, तथा सर्वेषु पदार्थे- ३०
१ तहि सयोगकेवलिनः । २ ज्ञानवैराग्यस्यासंभ-पा०, ब०, २०, मु०। ३ प्रात्ममनः इन्द्रियार्थसम्प्रयोगात् घटादिज्ञानं चतुष्टयसन्निकर्षजम् । प्रात्ममनःसु खाद्यर्थसम्बन्धाज्जायमानं सुखादिज्ञानं त्रय सन्निकर्षजम् । प्रात्ममनःसम्प्रयोगाज्जायमानमात्मज्ञानं द्वयसनिकर्षजम् -सम्पा०। ४ "क्षणिकाः सर्वसंस्काराः स्थिराणां कतः क्रिया। भतिर्येषां क्रिया सैव कारकं सैव चोच्यते ॥” इति पूर्णः श्लोकः सम्पा०। ५-नन्तरवि- श्र०, ता० । ६-रं सं-पा०, ब०,०मु०-१७......प्रकल्पितम् । सन्तानिव्यतिरेकेण यतः काचिन्न सन्ततिः। व्यतिरेकेऽपि नित्यत्वं सन्तानस्य यदीष्यते। प्रतिज्ञाहानिदोषः स्यात क्षणिकान्तवादिनाम् । क्षणिकत्वेऽपि सन्तानपक्षनिक्षिप्तदूषणम् । कृतनाशादिकं तस्य सर्वमेव प्रसज्यत इति । ८ कोटरादि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org