________________
१४
तस्वार्थवार्तिके
[१११ गजेनावमृद्यमानं बालमुपलभ्यातिदुःखाभिभवमूर्च्छया गतप्राण इवाभवत्, विनिवृत्तकायादिक्रियस्य चास्य कुशलसुहृद्भिरुपायपूर्वकं प्रत्याहितप्राणवृत्तेः स्वपुत्र एव दर्शनविषयमपनीते 'अयं मम पुत्रः' इत्याविर्भूततत्त्वज्ञानस्य स्वपुत्रसादृश्योद्भूतमिथ्याज्ञानजनितं दुःखं तदभूतपूर्वमिवाभवत् । एवमज्ञानाद् बन्धः केवलाच्च ज्ञानान्मोक्ष इति ।
नवा नान्तरीयकत्वाद् रसायनवत् ।४९। न वा एष दोषः । कि कारणम् ? नान्तरीयकत्वात्, नहि त्रितयमन्तरेण मोक्षप्राप्तिरस्ति । कथम् ? रसायनवत् । यथा न रसायनज्ञानादेव रसायनफलेन' अभिसंबन्धः रसायनश्रद्धानक्रियाभावात्, यदि वा रसायनज्ञानमात्रादेव रसायनफलसंबन्धः कस्यचिद् दृष्टः सोऽभिधीयताम् ? न चासावस्ति । न च रसायनक्रियामात्रादेव;
ज्ञानश्रद्धानाभावात् । न च श्रद्धानमात्रादेव; रसायनज्ञानपूर्व क्रियासेवनाभावात् । अतो रसा१० यनज्ञानश्रद्धानक्रियासेवनोपेतस्य तत्फलेनाभिसंबन्ध इति निःप्रतिद्वन्द्वमेतत् । तथा न मोक्ष
मार्गज्ञानादेव मोक्षणाभिसंबन्धो दर्शनचारित्राभावात् । न च श्रद्धानादेव; मोक्षमार्गज्ञानपूर्वक्रियानष्ठानाभावात। न च क्रियामात्रोदेव: ज्ञानश्रद्धानाभावात। यतः क्रिया ज्ञानश्रद्धानरहिता निःफलेति । यदि च ज्ञानमात्रादेव क्वचिदर्थसिद्धिर्दष्टा साभिधीयताम् ? न चासावस्ति ।
अतो मोक्षमार्गत्रितयकल्पना ज्यायसीति । 'अनन्ताः सामायिक सिद्धाः' इत्येतदपि त्रितयमेव १५ साधयति । कथम् ? ज्ञस्वभावस्यात्मनस्तत्त्वं श्रद्दधानस्य सामायिकचारित्रोपपत्तेः । समय
एकत्वमभेद इत्यनान्तरम्, समय एव सामायिकं चारित्रं सर्वसावधनिवृत्तिरिति अभेदेन संग्रहादिति । उक्तञ्च
*"हतं ज्ञानं क्रियाहीनं हता चाज्ञानिना क्रिया ।
धावन् किलान्धको दग्धः पश्यन्नपि च पडगुलः ॥१॥ संयोगमेवेह वदन्ति तमा न हयेकचक्रेण रथः प्रयाति । अन्धश्च पङगुश्च वने प्रविष्टो तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥२॥" [ ] इति ।
ज्ञानादेव मोक्ष इति चेत् अनवस्थानादुपदेशाभावः ।५०। यस्य ज्ञानादेव मोक्षः तस्यानवस्थानादुपदेशाभावः । यथा प्रदीपस्य तमोनिवृत्तिहेतुत्वात् प्रदीपे सति न मुहूर्तमपि तमोऽव
तिष्ठते । नयेतदस्ति 'प्रदीपश्च नाम ज्वलति तमश्चावतिष्ठते' इति । तथा आत्मपरस्वरूपा२५ वबोधाविर्भावानन्तरमेव आप्तस्य मोक्षः स्यात् । न येतद्युक्तिमत् 'ज्ञानं च नाम मोक्षस्य कार
मस्ति न च मोक्षः' इति । ततो ज्ञानानन्तरमेवाप्तस्य शरीरेन्द्रियवृत्त्यादि निवृत्तेः प्रवचनोपदेशाभावः ।
संस्काराक्षयादवस्थानादुपदेश इति चेत्, न; प्रतिज्ञातविरोधात् ।५१। स्यादेतत्-यावदस्य सस्कारा न क्षीयन्ते तावदवस्थानमित्युपदेश उपपन्न इतिः तन्न; कि कारणम् ? प्रतिज्ञान३० विरोधात् । यद्युत्पन्नज्ञानोऽपि संस्कारक्षयापेक्षत्वादवतिष्ठते न मुच्यते, न तर्हि ज्ञानादेव
मोक्षः। कुतः ? संस्कारक्षयात् । इति यत्प्रतिज्ञातम्-*"ज्ञानेन चापवर्गः" [सांख्यका० ४४] इति तद्विरोधः । किञ्च,
___ उभयथा दोषोपपत्तेः ॥५२॥ इदमिह संप्रधार्यम्-संस्कारक्षयस्य ज्ञानं वा हेतुः स्यात्,
अन्यो वेति ? यदि ज्ञानम्; ननु ज्ञानादेव संस्कारनिरोध इति प्रवचनोपदेशाभावः । अथान्यः स २५ कोऽन्यो भवितुमर्हति अन्यतश्चारित्रात्, इति पुनरपि प्रतिज्ञातविरोध इति । किञ्च,
१ मारोग्येण । २ तत्फलेनाभिसम्बन्धः एवमुत्तरत्रापि । ३ न च रसायनश्रद्धान- म,० प्रा०, ०, २०। ४ मार्गाज्ञा-म०। ५ प्रात्मस्वरूपा-मु०, प्रा०, ब०, द०,। ६ इच्छावाक्प्रवृत्त्यादि।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org