________________
११]
प्रथमोऽध्यायः भावेष्वनित्यानात्माशुचिदुःखेषु नित्यसात्मकशुचिसुखाभिमानरूपा। 'तत्प्रत्ययाः संस्कारा इत्यादिवचनं केषाञ्चित् । के पुनस्ते संस्काराः ? रागादयः । ते च विधा"पुण्यापुण्यानेज्यसंस्काराः, यत इदमुच्यते अविद्याप्रत्ययाः संस्काराः । वस्तुप्रतिविज्ञप्तिर्विज्ञान मिति । तत्र पुण्योपगानां संस्काराणां पुण्योपगमे च विज्ञानं भवति, अपुण्योपगानां संस्काराणामपुण्योपगमे च विज्ञानं भवति, आनेज्योपगानां संस्काराणामानेज्योपगमे च विज्ञानं भवति, यत इदमुच्यते ५ संस्कारप्रत्ययं विज्ञानम् । विज्ञानसंभूताश्चत्वारः स्कन्धा नाम, चत्वारि महाभूतानि रूपम्, नाम च "रूपं च नामरूपमिति । यत इदमुच्यते विज्ञानप्रत्ययं नामरूपम् । नामरूपसन्निहितानीन्द्रियाणि षडायतनमिति । नामरूपवृद्धया षड्भिरायतनद्वारैः कृत्यं क्रिया च प्रजायते इति नामरूपप्रत्ययं षडायतनमुच्यते । त्रयाणां धर्माणां सन्निपातः स्पर्शः । केषाम् त्रयाणाम् ? विषयेन्द्रियविज्ञानानाम्, संगतिः स्पर्शः । षड्भ्य आयतनेभ्यः षट् स्पर्शकायाः प्रवर्तन्त इति १० षडायतनप्रत्ययः स्पर्शः । स्पर्शानुभवनं वेदना । यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तत इतीदमुच्यते स्पर्शप्रत्यया वेदनेति । वेदनाध्यवसाना तृष्णा । यतस्तान् वेदनाविशेषानास्वादयत्यभिनन्दयत्यध्यवस्यति तृष्यति सा वेदनाप्रत्यया तृष्णोच्यते । तृष्णावैपुल्यमुपादानम् । सा मे प्रिया सानुरागेति भवेन्नित्यमपरित्यागो भूयो भूयश्च प्रार्थना, तदुच्यते तृष्णाप्रत्ययमुपादानमिति । उपादाननिमित्तं पुनर्भवजनकं कर्म भवः, एवं प्रार्थयमानः पुनर्भवजनकं कर्म १५ समुत्थापयति कायेन मनसा वाचा। तद्धेतुकः स्कन्धप्रादुर्भावो जातिः । जातिस्कन्धपरिपाको जरा। जात्यभिनिर्वृत्तानां स्कन्धानामपचयः परिपाकः, परिपाकाद्विनाशो भवति तन्मरणम् । तदेव जातिप्रत्ययं जरामरणमुच्यते। एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादोऽन्योन्यहेतुकः। तत्र सर्वभावेष्वविपरीतदर्शनं विद्या। यत्सर्वभावेष्वनित्यानात्मकाशुचिदुःखेषु अनित्यानात्मकाशुचिदुःखदर्शनं सा विद्या। ततो मोक्षः । कथम् ?अविद्याया विद्यातो निवृत्तिः, अविद्यानिवृत्तेः संस्कार- २० निरोधः, संस्कारनिरोधाद्विज्ञाननिरोधः, एवमुत्तरेष्वपीति। तदेवमविद्यातो बन्धो भवति विद्यातश्च मोक्ष इति ।
मिथ्यादर्शनादेरिति मतं भवताम् ।४७।*"मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः" [त. सू० ८।१] इति भवतामाहतानामपि मतम् । पदार्थविपरीताभिनिवेशश्रद्धानं मिथ्यादर्शनम्, विपरीताभिनिवेशश्च मोहात् , मोहश्चाज्ञानमित्यज्ञानाद् बन्धः । अतो मिथ्यादर्शनमा- २५ दिर्बन्धस्य । सामायिकमात्रप्रतिपत्तेश्च *"अनन्ताः सामायिकमात्रसिद्धाः"[ ] इति वचनात्, सामायिकं च ज्ञानम्, अतः आर्हतानामपि ज्ञानान्मोक्ष इत्यविसंवादात् त्रितयमोक्ष मार्गकल्पना न युक्ता । किञ्च,
दृष्टान्तसामर्थ्याद् वणिकस्वप्रियकपुत्रवत् ॥४८॥ तद्यथा वणिक् स्वप्रियकपुत्रसदृशविग्रहं
१-नित्यानात्मकाश -प्रा०,०, म०। २ अविद्याकारणकाः । ३ प्राविशन्देन उपेक्षोपावीयते । ४त्रिष्ठाः द०, ता०, श्र०। ५ औदासीन्य । ६ विकल्पज्ञानमित्यर्थः। ७ नाम च रूपनाम नामम०।८-भवने वे-१०।६-व्यतीति मा०, ब०, २०, मु०। १० तदेवं जा-पा०,०, २०, मु.। ११ अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं पडायतनम् पडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययमुपादानम् उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्ययं जरामरणमिति द्वादशाडगं प्रतीत्यसमुत्पाद इति । १२-नादिरिति मु०॥ १३ "भूयन्ते चानन्ताः सामायिकमात्रपदसिद्धाः" -तत्वार्थभा० सम्बन्धका० २७ । १४ यथा म्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org