________________
१२ तत्त्वार्थवार्तिके
[११ धर्माधर्मयोः ? अनागतानुत्पत्ति-सञ्चितनिरोधाम्याम् । अनागतानुत्पत्तिः संचितनिरोधश्च द्विविधोऽभावः । तत्रानागतानुत्पत्तिस्तावत् धर्माधर्मयो:-शरीरेन्द्रियमनोव्यतिरिक्तात्मदर्शनाद् अकुशलस्याधर्मस्यानुत्पत्तिः तत्साधनानां पारवर्जनात्, धर्मस्यापि तत्साधनानामनभिसम्बन्धात्, नानभिसंहितं कर्म बनातीति । संचितनिरोधोऽपि-तदुद्वेगपरिखेदफलादधर्मनाशः, तस्मात संसारादुद्वेगः। शरीरतत्त्वावलोकनात् शीतोष्णशोकादिनिमित्तं शरीरपरिखेदं प्रदायाधर्मोऽतिरिच्यते । भोगदोषदर्शनात् षण्णां च पदार्थानां तत्त्वविनिर्णयात् प्रीतिमारभ्य धर्मस्य विनाशः, अतो मोक्ष इत्यपरेषां दर्शनम् ।
_'दुःखादिनिवृत्तिः' इत्यन्येषाम् ॥४५॥ *"दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावानिःश्रेयसाधिगमः" [न्यायसू ० १११।२] इत्यन्येषां दर्शनम् । पाठं प्रत्युत्तरं मिथ्या१० ज्ञानम् । सर्वेषामुत्तरस्य तत्त्वज्ञानानिवृत्तौ यस्तदनन्तरोऽर्थस्तस्य निवृत्तिः । कश्चासौ ?
दोषः, स हि मिथ्याज्ञानादनन्तरः तत्कार्यत्वात् । स चोत्तर: 'प्रवृत्तेः, प्रवृत्तिश्चानन्तरा तत्कार्यत्वात्, ततो दोषाभावे प्रवृत्त्यभावः । प्रवृत्तिरप्युत्तरा जन्मनः, प्रवृत्तेरभावाज्जन्माभावः तत्कार्यत्वात् । तथा जन्मोत्तरं दुःखात्, अतो जन्माभावाद् दुःखनिवृत्तिः । तन्निवृत्तौ च आत्यन्तिकः
सुखदुःखानुपभोगो निःश्रेयसमिति । १५ 'अविद्याप्रत्ययाः संस्काराः' इत्यादिवचनं केषाञ्चित् । ४६। अविद्या विपर्ययात्मिका, सर्व
१० प्रतौ 'अधर्मस्य' इति पदम् 'अकुशलस्य' इति पदस्य टिप्पणभूतम् । २ नैयायिकानाम् । ३ धर्माधर्मरूपायाः। ४ य ा-पा०, ब०, द०, मु०। ५ बौद्धानाम । "तत्र प्रतीत्यसमुत्पादः शालिस्तम्बसत्रेऽभिहितः। तत्र आध्यात्मिकस्य प्रतीत्यसमत्पादस्य हेतपनिबन्धनः कतमः यदिदम-अविर संस्काराः यावज्जातिप्रत्ययं जरामरणमिति..." -शिक्षासमुच्चय प० २१६ । "तद्यथोक्तमार्यशालिस्तम्बसूत्रे- एवमुक्त मैत्रेयो बोधिसत्त्वो महासत्त्व प्रायष्मन्तं शारिपुत्रमेतदवोचत । यदुक्तं भगवता धर्मस्वामिना सर्वज्ञेन । यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्म पश्यति । यो धर्म पश्यति स बुद्धं पश्यति । तत्र कतमः प्रतीत्यसमुत्पादो नाम । यदिदमविद्याप्रत्ययाः संस्काराः। संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्ययाः जरामरणशोकपरिदेवदुःखदौर्मनस्यादयः ।......तत्राविद्या कतमा एतेषामेव षण्णां धातूनां यकसंज्ञा, पिण्डसंज्ञा, नित्यसंज्ञा, ध्रुवसंज्ञा, शाश्वतसंज्ञा, सुखसंज्ञा, प्रात्मसंज्ञा, सत्त्वसंज्ञा, जीवसंज्ञा, जन्तुसंज्ञा, मनुजसंज्ञा, मानवसंज्ञा, अहङ्कारममकारसंज्ञा, एवमादिविविधमज्ञानमियमुच्यते अविद्या। एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते, तत्रये रागद्वेषमोहा विषयेषु अमी अविद्याप्रत्ययाः संस्कारा इत्यच्यन्ते । वस्तुप्रतिविज्ञप्तिविज्ञानम् । चत्वारि महाभूतानि च उपादानानि रूपम् एकध्यरूपम्, विज्ञानसम्भताश्चत्वारोऽरूपिणः स्कन्धा नाम, तन्नामरूपम् । नामरूपसनिःसतानि इन्द्रियाणि षडायतनम् । त्रयाणां धर्माणां सन्निपातः स्पर्शः। स्पर्शानभवो वेदना । वेदनाध्यवसानंतष्णा। तृष्णावैपुल्यमुपादानम् । उपादाननिर्जातं पुनर्भवजनकं कर्म भवः । भवहेतकः स्कन्धप्रादुर्भावो जातिः। जात्यभिनिर्वत्तानां स्कन्धानां परिपाको जरा। स्कन्धविनाशो मरणमिति ।" -बोधिचर्या० ५० १०३६८। शिक्षासम०प० २२२। माध्यमिकका०प०५६४ । मध्यान्तवि. सू० टी० पृ० ४२ । “पुनरपरं तत्वेऽप्रतिपत्तिः मिथ्याप्रतिपत्तिः अज्ञानम् अविद्या । एवम् अविद्यायां सत्यां त्रिविषाः संस्कारा अभिनिवर्तन्ते- पुण्योपगा अपुण्योपगा प्रानिञ्ज्योपगाश्च इम उच्यन्ते अविद्याप्रत्ययाः संस्कारा इति । तत्र पुण्योपगानां संस्काराणां पुण्योपगमे च विज्ञानं भवति, अपुण्योपगानां संस्काराणाम् मपुण्योपगमे च विज्ञानं भवति, प्रानिञ्ज्योपगानां संस्काराणाम् प्रानिज्योपगमेच विज्ञानं भवति । इदमुच्यते संस्कारप्रत्ययं विज्ञानमिति। एवं नामरूपम् । नामरूपविवद्धया षडभिः प्रायतनद्वारः कृत्यक्रिया प्रवर्तते, तत् नामरूपप्रत्ययं षडायतनमुच्यते......" -शिक्षासम० पृ० २२३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org