________________
११]
प्रथमोऽध्यायः
११
विपर्ययाद् बन्धस्यात्मलाभे सति ज्ञानादेव तद्विनिवृत्तेस्त्रित्वानुपपत्तिः ॥४१॥ अत्र कश्चिदाह - विपर्ययाद् बन्धस्यात्मलाभो भवति तदभावात्तत्त्वज्ञाने सति 'बन्धविनिवृत्तिर्भवति । कारभावद्धि कार्याभाव इति । बन्धनिवृत्तिरेव च मोक्षः । अतो मोक्षमार्गस्य त्रित्वं नोपपद्यते । प्रतिज्ञामात्रमिति चेत्; न; सर्वेषामविसंवादात् ॥ ४२॥ स्यादेतत् - प्रतिज्ञामात्रमेतत् - 'विपर्ययाद् बन्धो भवति' इति; तन्न; किं कारणम् ? सर्वेषामविसंवादात् । नात्र प्रवादिनो ५ विसंवदन्ते । तद्यथा -
'धर्मेण गमनम्" इत्यादिवचनमेकेषाम् ॥४३॥ * 'धर्मेण गमनमूर्ध्वम्” [ सांख्यका० ४४ ] भवतिअष्टसु ब्राह्मसौम्यप्राजापत्यैन्द्र गान्धर्वयक्ष राक्षस पिशाचेषु । * " गमनमधस्ताद् भवत्यधर्मेण " अर्मे खलु षट्सु स्थानेषु मानुषपशुमृगमत्स्यसरीसृपस्थावरेषु गमनम् । ज्ञानेन चापवर्गो" यदास्य रजस्तमसोर्गुणभावात् सत्त्वस्य प्राधान्यात् 'प्रकृतिपुरुषान्तरपरिज्ञानमाविर्भवति तेनापवर्गः । *“विपर्ययादिष्यते बन्धः " योऽस्याव्यक्तमहदहङ्कारतन्मात्रसंज्ञास्वष्टासु प्रकृतिषु आकारिकेषु वैकारिकेषु चेन्द्रियेषु आत्मत्वाभिमानः स विपर्ययः, तस्माद् बन्ध इत्येकेषां वचनम् ।
तथा अनात्मीयेष्वात्माभिमानविपर्ययात् । तस्य शब्दाद्युपलब्धिरादिः गुणपुरुषान्तरोपलब्धिरन्तः । ‘यावदस्याविभक्तः प्रत्ययः - श्रोत्रादीन्द्रियवृत्तिषु श्रवणादिषु 'अहं श्रोता' इत्येवमादिः, १४ पाञ्चभौतिके च शिरः पाण्यादिसमूहे शरीरे ' अहं पुरुषः' इति प्रत्ययो भवति, तावदप्रतिबुद्ध'त्वात् संसारः । गुणपुरुषान्तरोपलब्धि रन्तः, यदा पुरुषवर्ज सर्व प्रकृतिकृतं त्रिगुणमचेतनं भोग्यमिति जानाति भोक्तारमकर्तारं चेतनं च पुरुषमन्यं प्रधानादवैति अचेतनांश्च गुणान् सदा तस्य गुणपुरुषान्तरोपलब्धिरन्तः संसारस्य । इति ज्ञानान्मोक्षो विपर्ययाद् बन्ध इत्येकेषाम् ।
२०
इच्छाद्वेषाभ्यामपरेषाम् ॥४४॥ इच्छाद्वेषपूर्विका "धर्माधर्मयोः प्रवृत्तिस्ताभ्यां सुखदुःखं तत इच्छाद्वेषौ । न च विमोहस्य तौ मिथ्यादर्शनाभावात् । मोहश्चाज्ञानम् । विमोहस्य यतेः षट्पदार्थतत्त्वज्ञस्य वैराग्यवतः सुखदुःखेच्छाद्वेषाभावः, इच्छाद्वेषाभावाद्धर्माधर्माभावः, तदभावे संयोगाभावोऽप्रादुर्भावश्च स मोक्षः, तयोर्धर्माधर्मयोरभावे भवत्यपवर्गः । कथम् ? प्रदीपोपरमे प्रकाशाभाववत् । यद्धि यद्भावं प्रतीत्यात्मानं प्रतिलभते तत्तस्योपरमात्तिरोभावं याति तद्यथा प्रदीप परमात् प्रकाशाभावः । बन्धश्चादृष्टाद् भवति, कथम् ? अधर्मसंज्ञाददृष्टाद- २५ ज्ञानं भवति, अज्ञानाच्च मोह:, मोहवत इच्छाद्वेषौ जायेते, इच्छा द्वेषाभ्यां धर्माधर्मी, स एष बन्धः, अतः संसारस्य प्रसूतिः । तस्माद् भवत्यदृष्टाभावे संयोगाभावः । कतरस्य संयोगस्याभाव: ? जीवनसंज्ञकस्य । धर्माधर्मापेक्षः सदेहस्यात्मनो मनसा संयोगो जीवनम् " तस्य धर्माधर्मेोरभावादभावोऽप्रादुर्भावश्च प्रत्यग्रशरीरस्यात्यन्तमभाव: ५ स मोक्षः । कथमभावो
१ बन्धनिव -आ०, ब०, द०, ता०, मु० । २ प्रतिवा- प्र०, ब०, द०, ता०, मु० । ३ गमनमूर्ध्वमि - आ०, ब०, मु० ॥ "धर्मेण गमनमूध्वं गमनमधस्ताद् भवत्यधर्मेण । ज्ञानेन चापवर्गः विपर्ययादिष्यते बन्धः ॥" - सांख्यका० ४४ । ४ सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानम् । ५- स्यावक्तव्यम- प्रा०, ब०, मु० । ६ बन्ध इत्येकेषां वचनमित्यत्रापि योज्यम् । ७ ज्ञानम् । यावत्तावच्च साकल्येऽवधौ मानेऽवारणे इत्यवधौ । ६ श्रज्ञानात् । १० वैशेषिकाणाम्
५
- सम्पा० । “इच्छा द्वेषपूविका धर्माधर्मप्रवृत्तिः ।" - वेशे० सू० ६।२।१४ । द्रष्टव्यम् - प्रश० भा० पृ० १४४-४५ । ११ धर्माधर्मप्रवृ- प्रा०, ब०, द०, मु०, ता० । १२ श्रन्यथादर्शनम् । १३ एव मु०, प्रा०, ब० । १४ सकाय पुरुष मानससंयोगो धर्माद्यपेक्षो जीवनमिति प्रतिपादनात् । १५ - त्यन्ताभावः आ०, ब०, ६० मु० ।
Jain Education International
१०
For Private & Personal Use Only
www.jainelibrary.org