________________
तत्त्वार्थवार्तिके
[११ व सर्वपदार्थप्रधानत्वाद् बहुवचनान्तः ।३४। यथा प्लक्षन्यग्रोधपलाशा इति अस्त्यादिसमानकालक्रियाणां प्लक्षादीनां परस्परापेक्षाणामितरेतरयोगे द्वन्द्वः सर्वपदार्थप्रधानत्वात् बहुवचनान्तः, तथा दर्शनज्ञानचारित्राणामस्त्यादिसमानकालक्रियाणां परस्परापेक्षाणामितरेतरयोगे द्वन्द्वः सर्वपदार्थप्रधानत्वाद् बहुवचनान्तः । यतस्त्रयाणामपि दर्शनादीनां सहितानां परस्परापेक्षाणां मोक्षमार्गत्वं प्रति प्राधान्यं नैकस्य न द्वयोः ।
प्रत्येकं सम्यग्विशेषणपरिसमाप्ति जिवत् ॥३५॥ यथा 'देवदत्तजिनदत्तगुरुदत्ता भोज्यन्ताम्' इति भुजिः प्रत्येकं परिसमाप्यते, तथा प्रशंसावचनस्य सम्यक्शब्दस्य प्रत्येकमभिसम्बन्धो दर्शनादिभिः-सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमिति ।
पूर्वपदसामानाधिकरण्यात् तद्व्यक्तिवचनप्रसङग इति चेत् न; मोक्षोपायस्यात्मप्रधान१० स्वात् ।३६। स्यादेतद्-दर्शनादिभिः सामानाधिकरण्यात् तद्व्यक्तिवचने मोक्षमार्गस्य प्राप्नुत
इतिः तन्ना कि कारणम् ? मोक्षोपायस्य आत्मप्रधानत्वात् । यो मोक्षमार्गो मोक्षोपायस्तस्य आत्मा स्वभाव: 'येनात्मना येन स्वभावेन मोक्षमार्ग उच्यते, स दर्शनज्ञानचारित्राणा सर्वेषामविशिष्ट एकः पुल्लिङगश्च तस्य प्राधान्यात् सत्यपि सामानाधिकरण्ये न तद्वयक्तिवचन
प्राप्तिः, यथा 'साधवः प्रमाणम्' इति । १५ आत्यन्तिकः सर्वकर्मनिक्षेपो मोक्षः ।३७। 'मोक्ष असने' इत्येतस्य घञ भावसाधनो मोक्षणं मोक्षः असनं क्षेपणमित्यर्थः, स आत्यन्तिकः सर्वकर्मनिक्षेपो मोक्ष इत्युच्यते ।
मृजेः शुद्धिकर्मणो मार्ग इवार्थाभ्यन्तरीकरणात् ।३८। मृष्टः शुद्धोऽसाविति मार्गः, मार्ग इव मार्गः। क उपमार्थः ? यथा स्थाणुकण्टकोपलशर्करादिदोषरहितेन मार्गेण मार्गगाः सुखमभिप्रेतस्थानं गच्छन्ति, तथा मिथ्यादर्शनासंयमादिदोषरहितेन त्र्यंशेन श्रेयोमार्गेण सुखं मोक्षं गच्छन्ति । ___अन्वेषण क्रियस्य वा करणत्वोपपत्तेः।३९। अथवा, 'मार्ग अन्वेषणे' इत्यस्य मार्गः सिध्यति । कुतः? सम्यग्दर्शनादीनां करणत्वोपपत्तेः । मोक्षो येन मार्यते स मोक्षमार्ग इति ।
युक्त्यनभिधानादमार्ग इति चेत् न; मिथ्यादर्शनाज्ञानासंयमानां प्रत्यनीकत्वादौषधवत् ।४।। स्यादेतत्, नात्र युक्तिरुक्ता-'सम्यग्दर्शनादित्रयमित्थं मोक्षमार्गः' इति,अतोऽस्य मार्गत्वं नोपपद्यते
इति; तन्न; किं कारणम् ? मिथ्यादर्शनाज्ञानासंयमानां प्रत्यनीकत्वात् । कथम् ? औषधवत् । २५ यथा वातादिकारोद्भूतरोगाणां निदान प्रत्यनीकं स्निग्धरूक्षाद्यौषधमुच्छेदकारणम्, तथा मिथ्यादर्शनाज्ञानासंयमादीनां निदानप्रत्यनीकं सम्यग्दर्शनाद्यौषधमुच्छेदकारणम् ।
इति तत्त्वार्थवार्तिक' व्याख्यानालङकारे प्रथमेऽध्याये प्रथममाह्निकम् ॥ १ ॥
१संहतानां मु०। २ येनात्मीयेन स्वभावेन स मो-म०, प्रा०, ब०। येनात्माना येन स्वभावेन समो-३०, १०। ३ प्रादिकारणं वातादि। ४ -कव्या-ब०, ता०। सूत्राणामनुपपत्तिचीदनातत्परिहारो विशेषाभिषानञ्चेति वार्तिकलक्षणम्। ५ तत्त्वार्थश्लोकवातिकालङकारे शास्त्रलक्षणव्याख्यानावसरे पालिकलक्षणमप्युक्तम्-वर्णात्मकं हि पदम्, पदसमुदायविशेषः सूत्रम्, सूत्रसमूहः प्रकरणम्, प्रकरपतमितिराह्निकम् । प्रालिकतंधातोऽध्यायः, अध्यायसमवायः शास्त्रमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org