________________
११]
प्रथमोऽध्यायः
जानातीति ज्ञानम्, पश्यतीति दर्शनम्, चरतीति चारित्रम् । अतो य उक्तःत्वादन्यत्वमात्मज्ञानादीनाम्' इति दोषः स न भवति ।
लक्षणाभाव इति चेत्; न; बाहुलकात् । २५ । स्यादेतत्-न लक्षणमस्ति कर्तरि युटो विधायकमिति; तन्न; कुतः ? बाहुलकात् “युड् व्याबहुलम् " [ जैने० २।३।९४] इति कर्तरि पुट् णित्रश्च यत्र विहिताः ततोऽन्यत्रापि दृश्यन्ते - त्या भावकर्मणोर्विहिताः करणादिष्वपि ५ भवन्ति - स्नात्यनेन स्नानीयश्चूर्णः, ददात्यस्मै इति दानीयोऽतिथिः, समावर्तन्ते तस्मादिति समावर्तनीय गुरुः । करणाधिकरणयोर्यु डुक्तः कर्मादिष्वपि दृश्यते - निरदति तदिति निरदनम्, प्रस्कन्दति तस्मादिति प्रस्कन्दनम् । अथवा,
भावसाधना ज्ञानादिशब्दाः तत्त्वकथनात् दात्रस्य करणव्यपदेशवत् । २६ । यथौदासीन्येनावस्थित मच्छिन्दत्तृणादि दात्रं करणमिति व्यपदिश्यते, तथौदासीन्येनावस्थितानि ज्ञानदर्शनचारित्राणि प्रतिनियतज्ञानदर्शन चरण क्रियाव्यापारं प्रति निवृत्तौत्सुक्यानि कथ्यन्ते - कोसो मोक्षमार्ग : ? ज्ञानदर्शनचारित्राणि ज्ञातिर्ज्ञानम्, दृष्टिर्दर्शनम्, चरणं चारित्रमिति । क्रियाव्यापृतानां तु ज्ञानादीनां कर्त्रादिकारकव्यवहारः ।
व्यक्तिभेदादयुक्तमिति चेत्; न; एकार्थे शब्दान्यत्वाद् व्यक्तिभेदगतेः ॥ २७॥ स्यादेतत्- 'ज्ञानमात्मा’इत्ययुक्तम् । कस्मात् ? व्यक्तिभेदात्, अभिधेयवल्लिङ्गसंख्ये भवतोऽभिधानस्येति' ज्ञान १५ आत्मा' इति प्राप्नोतीति; तन्न; किं कारणम् ? एकार्थे शब्दान्यत्वाद् व्यक्तिभेदगतेः - एकस्मिन्नप्यर्थे शब्दभेदाद् व्यक्तिभेदा दृश्यन्ते यथा 'गेहं कुटी मठः, पुष्यः तारका नक्षत्रम्' इति, एवं 'ज्ञानमात्मा' इत्यपि स्यात् ।
ज्ञानग्रहणमादौ न्याय्यं तत्पूर्वकत्वाद्दर्शनस्य |२८| आह - इह ज्ञानग्रहणमादौ न्याय्यम् । कुतः ? तत्पूर्वकत्वाद्दर्शनस्य यतः पदार्थतत्त्वोपलब्धिपूर्वकं श्रद्धानम् ।
अल्पाच्तरत्वाच्च । २९ । दर्शनात् ज्ञानमल्पाच्तरम्, अतश्च पूर्वं वाच्यम् ।
न; उभयोर्युगपत्प्रवृत्तेः,' प्रकाशप्रतापवत् |३०| नैष दोषः । कुतः ? उभयोर्युगपत्प्रवृत्तेः । कथम् ? प्रकाशप्रतापवत् । यथा सवितुर्घनपटलावरणविगमे प्रतापप्रकाशप्रवृत्तिर्युगपद् भवति तथा ज्ञानदर्शनयोर्यु गपदात्मलाभः । तद्यथा - यदा दर्शन मोहस्योपशमात् क्षयोपशमात् क्षयाद्वा आत्मा सम्यग्दर्शनपर्यायेणाविर्भवति तदैव तस्य मत्यज्ञानश्रुताज्ञाननिवृत्तिपर्वकं मतिज्ञानं २५ श्रुतज्ञानं चाविर्भवति ।
- 'कर्तृ' करणयोरन्य
दर्शनस्यैवार्ध्याहतत्वात् । ३१ । यदप्युक्तम् - 'अल्पाच्तरत्वाज्ज्ञानस्य पूर्वनिपातः' इति ; तदसत् ; कस्मात् ? दर्शनस्यैव अभ्यर्हितत्वात् । ज्ञानाद्दर्शनमेवाभ्यर्हितम्, दर्शनसन्निधाने सत्यज्ञानस्यापि ज्ञानभावात् ज्ञात्वाप्यश्रद्दधतस्तदभावात् ।
मध्ये ज्ञानवचनम्, ज्ञानपूर्वकत्वाच्चारित्रस्य |३२| यतो जीवादिपदार्थतत्त्वज्ञानसन्निधाने सति चारित्रमोहस्योपशमात् क्षयोपशमात् क्षयाद्वा कर्मादान हेतु क्रियाविशेषोपरमश्चारित्रपरिणामो भवति, ततश्चारित्रस्य ज्ञानपूर्वकत्वात् ज्ञानं पूर्वं प्रयुक्तम् ।
इतरेतरयोगे द्वन्द्वः, मार्ग प्रति परस्परापेक्षाणां प्राधान्यात् । ३३ । अयमितरेतरयोगे द्वन्द्वो दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्राणीति । कुतः ? मार्ग प्रति परस्परापेक्षाणां प्राधान्यात् ।
१ यदुक्तं क - भ०, ता०, मू० । २ व्याभाव-प्रा०, ब०, प०, सु० | त्याः इति प्रत्यया इत्यर्थः । - अ० टि०, ता० दि० । ३ प्रतापप्रकाशवत् मु०, आ०, ब०, ब०, १४ चारित्रमोहोप- मु०, प्रा०, ब० ।
Jain Education International
For Private & Personal Use Only
१०
२०
३०
३५
www.jainelibrary.org