________________
[११
तत्त्वार्थवार्तिके याणां च स्यादेकत्वं स्यादन्यत्वम् । कथम् ? तत्परिणामादेशात् स्यादेकत्वम्, यत आत्मैवोभयपरिणामकारणवशात् ज्ञानादिपर्यायपरिणतो ज्ञानादिव्यपदेशभाग् भवति, नान्य आत्मा नान्ये ज्ञानादयः आत्मद्रव्यव्यतिरिक्तज्ञानादिपर्यायाभावात् । पर्यायिपर्यायभेदाच्च स्यादन्यत्वम्,
यतः पर्यायी आत्मा पर्याया ज्ञानादयः । तस्मादेकत्वान्यत्वं प्रत्यनेकान्तोपपत्तेः तत्परिणामत्वेऽपि ५ करणभावो युक्तः ।
इतरथा हि एकार्थपर्यायादन्यत्वप्राप्तिक्षवत् ।२०। यस्यैकान्तिक कर्तृ करणयोरन्यत्वं तस्यैकार्थपर्यायादन्यत्वं प्राप्तम् । कथम्? वृक्षवत् । यथा 'प्रासादं करोति परश्वादिभिः' इत्यत्र कर्तृ करणयोरन्यत्वं तथा 'भज्यते वृक्षः शाखाभारेण' इत्येकस्य वृक्षस्य शाखाभारार्थपर्यायाद
न्यत्वं प्राप्तम्, 'न चादोऽस्ति, यतो न शाखाभारादृते अन्यो वृक्षः । न च शाखाभारादन्यो वृक्षो न १० भवतीति 'भज्यते वृक्षः शाखाभारेण' इति एकार्थपर्यायात्मकः करणनिर्देशो न भवति ? तथा
नात्मद्रव्यादृते अन्यज्ज्ञानम् । न चात्मद्रव्यादृते नान्यज्ज्ञानमिति 'जानात्यनेनार्थानात्मा' इत्येकार्थपर्यायात्मकं करणं न भवति ? किञ्च,
करणस्योभयथोपपत्तेर्द्रव्यस्य मूर्तिमदमूर्तिभेदवत् ।२१। यथा द्रव्यस्य मूर्तिमदमूर्तिभेदादेकान्तपरिग्रहो नास्ति-पुद्गलद्रव्यं मूर्तिमत्, धर्माधर्माकाशकाला अमूर्तयः, आत्मा 'चामूर्तिः १५ द्रव्यार्थादेशात् न पर्यायार्थादेशात्,'तस्यानादिकार्मणशरीरसंबन्धात् । तथा करणं द्वेधा-विभक्ता
ऽविभक्तकर्तृकभेदात् । कर्तुरन्यद्विभक्तकर्तृकं यथा 'परशुना छिनत्ति देवदत्तः' इति । कर्तुरनन्यदविभक्तकर्तृकं यथा 'अग्निरिन्धनं दहत्यौष्ण्येन" इति । तथा 'आत्मा ज्ञानेनार्थान् जानाति' इत्यविभक्तकर्तृ कं करणम् । किञ्च,
दृष्टान्ताच्च कुशूलस्वातन्त्र्यवत् ।२२। यथा 'भिनत्ति कुशूलं देवदत्तः' इत्यत्र कुशूलो यदा २० भिदिक्रियायाः सुकरतया स्वातन्त्र्येण विवक्षितः स्वयमेवात्मानं भिनत्ति इति, तदा 'किं करणोऽ
सावात्मानं भिनत्तिः इति विवक्षायां कुशूलात्मैव करणत्वेनोपादीयते । तथा आत्मैव ज्ञाता करणं च भवति । किञ्च,
एकार्थपर्यायविशेषोपपत्तेरिन्द्रादिव्यपदेशवत् ।२३। इहैकस्यार्यस्य अनेक पर्यायविशेषोपपत्तिष्टा। न चास्य तेभ्यः पर्यायेभ्योऽन्यत्वम् । कथम् ? इन्द्रादिव्यपदेशवत् । यथैकस्य २५ देवराजार्थस्य इन्द्रशक्रपुरन्दराद्यनेकव्यञ्जनपर्यायविशेषोपपत्तिः । नच देवराजस्य इन्द्रशक्र
पुरन्दरा दिपर्यायेभ्योऽन्यत्वम् । न चानन्यत्वात् येनायमिन्द्रस्तेनैव शक्रः पुरन्दरो वा, येन वा शकस्तेनैवेन्द्रः पुरन्दरो वा, येन वा पुरन्दरस्तेनैवेन्द्रः शक्रो वा । कथम् ? इह यत इन्द्रादीनां प्रतिनियतव्यञ्जनपर्यायोपपत्तिः-इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इति । न
चेन्दनशकनपूर्दारणव्यञ्जनपर्यायभेदात् देवराज इन्द्रः शक्रः पुरन्दरो वा न भवति । ३० भवत्येव । तथैकस्य आत्मनो ज्ञानादिपर्यायविशेषोपपत्तिः, तस्मादेकार्थपर्यायविशेषोपपत्तेः नान्यत्वमात्मद्रव्यादेकान्तेन ज्ञानादीनाम् ।।
कर्तृ साधनत्वाद्वा दोषाभावः।२४। अथवा, नेमौ ज्ञानदर्शनशब्दौ करणसाधनौ। किं तहि ? कर्तृसाधनौ । तथा चारित्रशब्दोऽपि न कर्मसाधनः । किं तर्हि ? कर्तृ साधनः । कथम् ? एवम्भूतनयवशात् । ज्ञानदर्शनचारित्राणि आत्मवेष्टः, अतस्तत्परिणामाज्ज्ञानादिपरिणत आत्मैव
१नवादोऽस्तिता। २ भवन्तीति मा०,०, ०म०। ३चामूर्तः मा०, ब,०, मु०, ता। ४-ठणेनेति प्रा०। ५-करवप-१०।७-रपर्या-१० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org