________________
११]
प्रथमोऽध्यायः सामान्यं विशेषः समवाय इत्येवमादिपर्यायान्तरेण परिणामः । यथा प्रदीपः स्वलक्षणप्रसिद्धो घटादिभ्योऽन्यो नैवं समवायः स्वलक्षणप्रसिद्धः द्रव्यादन्योऽस्ति, द्रव्यस्यैव गुणादि-पर्यायपरिणामात् । तस्मान्न प्रदीपवत् समवायसिद्धिः । अन्यथा च द्रव्यादन्यत्वे गुणादीनां द्रव्यस्याद्रव्यत्वप्रसङगो यतो न गुणादिपर्यायान् प्रोज्झ्यान्यद् द्रव्यमस्ति । यदि वा गुणादीन् प्रोज्झ्य द्रव्यं केनचिदन्येन स्वविशेषेण प्रसिद्धं यद् गुणादिभिः सम्बध्यते स विशेष उच्यताम् ? यतो न गणादिपरित्यागेनान्यो द्रव्यस्य विशेषः स्वतः प्रसिद्धोऽस्ति । अतो द्रव्यपरिणामा एव गुणादय 'इति सिद्धम् । किञ्च,
विशेषविज्ञानाभावात् ।१७। यस्य युतायुतसिद्धार्थग्राहकं विज्ञानमेकमस्ति तस्य अयुतसिद्धानां समवायः युतसिद्धानां संयोग इति स्याद्विशेषविज्ञानम्, भवतस्तु क्षणिककार्थविषयत्वाज्ज्ञानानां तद्विशेषविज्ञानाभावः, तदभावात्तद्विवेकाभावः ।
संस्कारादिति चेत्, न; तस्यापि तादात्म्यात् ।१८। स्यादेतत्-ज्ञानजो ज्ञानहेतुश्च संस्कारोऽस्ति, तस्यादः सामर्थ्यमिति; तन्न; कुतः ? तस्यापि तादात्म्यात्। एकार्थग्राहिज्ञानजस्य संस्कारस्य चैकार्थग्राहिज्ञानहेतुत्वात्, अनेकार्थग्राहिज्ञानाभावाच्चानेकार्थनाहिज्ञानसंस्काराभावः, तस्मात् पूर्वोक्तो दोषस्तदवस्थ एव ।
अथवा, अयमर्थः-'कर्तृ करणयोरन्यत्वादन्यत्वमात्मज्ञानादीनां परश्वादिवदिति चेत् । न; तत्परिणामादग्निवदिति । यथा अग्निरग्निस्वभावादन्यो दहन्'-दाहक्रियायाः कर्ता । किकरणो दहति ? तत्परिणामादग्न्यात्मैव करणम्, तथा आत्मा ज्ञस्वभावत्वात् ज्ञानादन्यः, तत्परिणामादर्थान् जानन् ज्ञानक्रियायाः कर्ता । किकरणो जानाति ? तत्परिणामात् तदेव ज्ञानं करणत्वेन विवक्ष्यते । अन्यथा 'चाऽतत्स्वाभाव्ये अनवधारणप्रसङगोऽग्निवत्' इत्येवमादिवाक्यार्थविवरणं दहनस्वभावापेक्षया योज्यम् । किञ्च,
अनेकान्तात् पर्यायपर्यायिणोरर्थान्तरभावस्य घटादिवत् ।१९। यथा घटकपालशकलशर्करादीनां नयद्वयार्पणाभेदात् स्यादेकत्वं स्यादन्यत्वम् । कथम् ? इह पर्यायार्थिकगुणभावे द्रव्याथिकप्राधान्यात् पर्यायानिर्पणात् मृद्रूपद्रव्याजीवानुपयोगादिद्रव्यार्थार्पणात् स्यादेकत्वम्, यतो घटकपालादयो मृद्रूपद्रव्यार्थ न जहति । तेषामेव द्रव्याथिकगुणभावे पर्यायार्थिकप्राधान्याद द्रव्यानर्पणात् कारण विशेषापादितभेदपर्यायापिणात् स्यादन्यत्वम्, यतोऽन्यो घटपर्यायः ॥ अन्यश्च कपालादिपर्यायः, तथा मृदो घटादिपर्यायाणां च स्यादेकत्वं स्यादन्यत्वम् । कथम् ? तत्परिणामात् स्यादेकत्वम्, यतो मृद्रूपमेव उभयपरिणामकारणवशाद् घटकपालादिपर्यायपरिणतं तद्वयपदेशभाग् भवति, नान्या मृत् नान्ये घटादयो मृद्रूपव्यतिरिक्तघटादिपर्यायाभावात् । पर्यायि-पर्यायभेदाच्च स्यादन्यत्वम्, यतः पर्यायि मृद्रव्यं पर्याया घटादयः । तथा आत्मनोऽपि ज्ञानादिपर्यायाणां च स्यादेकत्वं स्यानानात्वम् । कथम् ? पर्यायार्थिकगुणभावे द्रव्याथिक- .. प्राधान्यात् पर्यायार्थानर्पणात् अनादिपारिणामिकचैतन्य जीवद्रव्यादिद्रव्यार्पणात् स्यादेकत्वम्, यतो ज्ञानादयोऽनादिपारिणामिकचैतन्यजीवद्रव्यादिद्रव्यार्थ न जहति । तेषामेव द्रव्यार्थिकगुणभावे पर्यायाथिकप्राधान्याद् द्रव्यार्थानपणात् कारणविशेषापादितभेदपर्यायार्पणात् स्यादन्यत्वम्, यतोऽन्यो ज्ञानपर्यायोऽन्ये च दर्शनादिपर्यायाः, तथा आत्मनो ज्ञानादिपर्या
१इति प्रति- मु०। २ विशेषपरिज्ञा-म०, प्रा०, ब०, द०। ३ क्षणिकम् एकार्थविषयञ्च शान यतः। ४-नस्य संस्का-पा०, २०, मु०,०। ५ कोऽर्थः। ६ वा त-मु०, मा०,०, ०। ७ -जीवद्रव्यार्था- म०, प्रा०, २०, द०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org