________________
तस्वार्थवार्तिके एव मासिधदिति ज्ञानत्वस्याप्यन्यज्ज्ञानत्वमस्ति तस्याप्यन्यत् तस्याप्यन्यदित्यनवस्था । अथानवस्था माभूदिति स्वत एव ज्ञानत्वस्य ज्ञानत्वमिष्टं ननु प्रतिज्ञाहानिः 'अर्थान्तरात् संप्रत्ययः' इति । किञ्च,
__सत्परिणामाभावात् ।१२॥ यथा दण्डसंबन्धेऽपि दण्डिनो न दण्डपरिणामः दण्डिव्यपदेशमात्रप्रतिलम्भात्, तथा उष्णगुणस्योष्णत्वसामान्यविशेषसंबन्धे नोष्णत्वं गुण-सामान्यविशेषपदार्थभेदात्, अत 'उष्णत्ववानुष्णगुणः' इत्यासक्तं न तु 'उष्णः' इति । तथोष्णगुणसंबन्धेऽप्यग्ने!ष्णत्वं द्रव्य-गुणपदार्थभेदात्, अत 'उष्णवानग्निः' इत्यासक्तं न तु स्वयम् 'उष्णः' इति ।
_____ समवायादिति चेत्, न; प्रतिनियमाभावात् ।१३। स्यान्मतम्-समवायो नामायुतसिद्धलक्षणः संबन्ध इहेदंबुद्धयभिधानप्रवृत्तिहेतुः तेनैकत्वमिव नीतानां व्यपदेशो भवति-उष्णत्वसमवायादुष्णो गुणः, उष्णगुणसमवायाच्चाग्निरुष्ण इति; तन्न; कुतः ? प्रतिनियमाभावात्। उष्णत्वोष्णगुणयो: अग्न्युष्णयोश्चान्यत्वे कोऽयं प्रतिविशिष्टो नियमो यदुष्णगुणस्याग्नावेव समवायो नाप्सु, शीतगुणस्य चाप्स्वेव समवायो नाग्नौ । उष्णत्वस्य चोष्णगुणेनैव समवायो न शीतादिगुणान्तरेणेति। तद्येन विशेषेणायं प्रतिनियम इष्यते न तं पश्यामः । अत एव द्रव्य
परिणाम एवौष्ण्यमिति सिद्धं नान्यस्तत्प्रतिनियमहेतुरस्ति । स्वभावो हेतुरिति चेत्; तत एव १५ तत्परिणामसिद्धिः । किञ्च,
समवायाभावो वृत्त्यन्तराभावात् ।१४। नास्ति तत्परिकल्पितः समवायः । कुतः ? वृत्त्यन्तराभावात् । यथा गुणादीनां पदार्थानां द्रव्ये समवायसंबन्धाद्वृत्तिरिष्टा तथा समवायः पदार्थान्तरं भूत्वा केन संबन्धेन द्रव्यादिषु वय॑ति समवायान्तराभावात् ? एक एव हि समवायः *"तत्वं भावेन व्याख्यातम्" [वैशे० ७।२।२८] इति वचनात् । न च संयोगेन वृत्तिः युतसिद्धयभावात्, युतसिद्धानामप्राप्तिपूर्विका प्राप्तिः संयोगः । न चान्यः संबन्धः संयोगसमवायविलक्षणोऽस्ति येन समवायस्य द्रव्यादिषु वृत्तिः स्यात् । अतः समवायिभिरनभिसंबन्धात् नास्ति खरविषाणवत् समवायः ।
प्राप्तित्वात् प्राप्त्यन्तराभाव इति चेत्, न; व्यभिचारात् ।१५। स्यान्मतम्-द्रव्यादीनि प्राप्तिमन्ति अतस्तेषां यया कयाचित् प्राप्त्या भवितव्यम्, समवायस्तु प्राप्तिर्न प्राप्तिमान्, अतः प्राप्त्य२५ न्तराभावेऽपि स्वत एव प्राप्नोतीति; तच्च न; कस्मात् ? व्यभिचारात् । यथा संयोगः प्राप्तिरपि सन् प्राप्त्यन्तरेण समवायेन वर्तते तथा समवायस्यापि स्यादिति ।
प्रदीपवदिति चेत् न; तत्परिणामादनन्यत्वसिद्धः।१६। स्यादेतत्-यथा प्रदीपः प्रदीपान्तरमनपेक्षमाण आत्मानं प्रकाशयति घटादींश्च, तथा समवायः संबन्धान्तरापेक्षामन्तरेणात्मनश्च द्रव्यादिषु वृत्तिहेतुर्द्रव्यादीनां च परस्परत इति; तन्नः कुतः ? तत्परिणामादनन्यत्वसिद्धेः । यथा प्रदीपः स्वयं प्रकाशपरिणामात् प्रकाशात्मनोऽनन्यः प्रकाशान्तरं नापेक्षते, अन्यथा प्रकाशात्मनोऽन्यत्वे प्रदीपस्याप्रदीपत्वप्रसङगः, यतो न प्रकाशात्मानं प्रोज्झ्यान्यः प्रदीपोस्ति, तथा न द्रव्यादन्ये गुणकर्मसामान्यविशेषसमवायाः सन्ति द्रव्यस्यैवोभयपरिणामकारणापेक्षस्य गुणः कर्म
तस्याप्यन्यदि-ग्रा०,३०, २०, म०, ता०।२-बानी-म०।३ तस्मान म०, प्रा०,०,व०। ४-सिवःता०।५ "व्याल्यातमिति शेषः। तस्वमेकत्वं, भावेन सत्तया व्याख्यातम् । यर्थका सत्ता सर्वत्र सद्बुद्धिप्रवतिका तयक एवं समवायः सर्वत्र समवेतबुद्धिप्रवर्तकः स्वलिअगाविशेषात् विशेषालिअगाभावाच्च" -वैशे. उप०।६ प्रोह्यान्यः म०, प्रा०,ब.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org