________________
१११]
प्रथमोऽध्यायः तत्परिणामादग्निव्यपदेशभाग भवति, स एवम्भूतनयवक्तव्यतया उष्णपर्यायादनन्यः, तथा एवम्भूतनयवक्तव्यवशाज्' ज्ञानदर्शनपर्यायपरिणत आत्मैव ज्ञान दर्शनं च तत्स्वाभाव्यात् ।
अतत्स्वाभाव्येऽनवधारणप्रसङगोऽग्निवत् ।६। यथा अग्निरुष्णपर्यायेणान्यद्रव्यासाधारणेनावधार्यते 'अयमग्निः' इति, स चेत्तत्स्वभावो न भवेत् प्रतिविशिष्टासाधारणपर्यायाभावादग्नेरनवधारणप्रसङगः । तथा आत्मनोऽपि ज्ञानादन्यत्वेऽनवधारणम्, यतोऽयमन्यद्रव्यासाधारणज्ञानपर्यायः तत्स्वभावात्, ततोऽनन्यो द्रव्यार्थादेशात् । स चेन्न ज्ञानस्वभावः सत्येवमज्ञः स्यात्, ततश्चास्यानवधारणप्रसङगः ।। ___अर्थान्तरात् संप्रत्यय इति चेत् न; उभयासृत्त्वात् ।७। स्यादेतत्-अन्यत्वे सत्यपि नानवधारणम्। कुतः ? यस्मादर्थान्तरात् संप्रत्ययः नीलीद्रव्यसम्बन्धाच्छाटीपटकम्बलादिषु नीलसम्प्रत्यवत्। यथा अर्थान्तरभूतेन नीलीद्रव्येण सम्बद्धत्वाच्छाटीपटकम्बलादिषु नीलसम्प्रत्ययः तथा १० अर्थान्तरभूतोष्णगुणसमवायादुष्णोऽग्निः, आत्मा'चार्थान्तरभूतज्ञानगुणसमवाया ज्ञ इति; तन्न; कि कारणम् ? उभयासत्त्वात् । दण्डदण्डिवत्। यथा दण्डसम्बन्धात् प्राग्दण्डी जात्यादिभिर्लक्षणः स्वतः सिद्धत्वात् सन्, दण्डोऽपि प्रारदण्डिसम्बन्धाद्वृत्तद्राधिमादिना लक्षणेन स्वतः सिद्धत्वात् सन्, अतो दण्डयोगाद्दण्डीत्येतन्न्याय्यम्, तथा नीलद्रव्ययोगाच्छाट्यादि नीलमित्येतन्न्याय्यम्, तथोष्णगुणयोगान्न प्रागग्ने रन्यद्विशेषलक्षणं सद्भावस्य प्रख्यापकमस्तीति असन्नग्निः, उष्ण- १५ स्यापि प्रागग्नियोगादसत्त्वं निराश्रयगुणाभावात् । न चासतोः सम्बन्धो दृष्ट इष्टो वा । आत्मनोऽपि ज्ञानगुणयोगात् प्रागसत्त्वं विशेषलक्षणाभावात् । ज्ञानस्याप्यात्मद्रव्यसंबन्धात् प्रागसत्त्वं निराश्रयगुणाभावात् । नचासतोः सम्बन्धो दृष्ट इष्टो वा । तस्मादुभयासत्त्वान्नार्थान्तरात् संप्रत्ययः । किञ्च,
उभयथाप्यसद्भावात् ।। कथम् ?
'सर्वासद्वादिवत् ।९। इदमसि त्वं प्रष्टव्यः-उष्णगुणोगात् प्रागग्ना उष्ण इति ज्ञानं स्याद्वा, न वेति ? यदि प्रागुष्णगुणयोगादग्नावुष्ण इति ज्ञानं स्यात्कैमर्थक्यादुष्णगुणयोगः प्रार्थ्यते ? अथ नास्ति; अतोऽप्युष्णज्ञानाभावात्, अनुष्णस्वभावस्याग्नेः उष्णगुणयोगादुष्ण इति व्यपदेशाभावः । किञ्च, ___अनवस्थाप्रतिज्ञाहानिदोषप्रसङगात् ॥१०॥ कथम् ?
सर्वसत्प्रतिपक्षवादिवत् ११॥ यथा याष्णगुणयोगादग्निरुष्णः; अथोष्णगुणः, केन योगादुष्णः ? स्वभावादिति चेत्; अग्नौ कोऽपरितोष: ? उष्णत्वादुष्णगुणस्योष्णत्वमिति चेत् उष्णत्वस्योष्वत्वं कुतः ? स्वत एवेति चेत् अग्नौ कोऽपरितोषः ? अथाग्नेरुष्णत्वं स्वत एव मासिधदिति उष्णत्वस्याप्यन्यदुष्णत्वमस्ति तस्याप्यन्यदित्यनवस्था । अथानवस्था माभूदिति स्वत एवोष्णत्वस्योष्णत्वम्, ननु प्रतिज्ञाहानिः 'अर्थान्तरात् ३० संप्रत्ययः' इति । तथा यदि ज्ञानगुणयोगादात्मा ज्ञः, अथ ज्ञानगुणः केन योगात् ? स्वभावादिति चेत्; आत्मनि कोऽपरितोषः । ज्ञानत्वाज्ज्ञानगुणस्य ज्ञानव्यपदेश इति चेत्; ज्ञानत्वस्य ज्ञानत्वं कुतः ? स्वत एवेति चेत्; आत्मनि कोऽपरितोषः ? अथात्मनो शत्वं स्वत
१-तन्यतावशा-मु०, प्रा०, ब०, ३० । २ -नं च वर्शनं म०, मा०, ब०, द० । ३ सम्बन्ध-मा०, २०, मु०। ४ वार्या-मु०मा०प० । ५ व्यतिरेकदृष्टान्तोऽयम् । ६स वडो मु०, मा०,०। ७ सतो मु०, मा०प० । सर्वसतावि-०। ६वमस्तित्वं म०, प्रा०,०।इवं स्वं प्रष्टव्योऽसि इत्यर्थ:सम्पा०।१०-नं 2- मु०, प्रा०,०,०।११ -भावात् किञ्च ता०, म०, प्रा०, ब०, ३० ।
२०
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org