________________
१०
तत्त्वार्थवार्तिके
[१२१ हितद्वैविध्यमेव जनितव्यापार प्रणिधानविशेषाहितद्वैविध्यजनितव्यापारं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । अस्यार्य उत्तरत्र वक्ष्यते ।
नयप्रमाणविकल्पपूर्वको जीवाद्यर्थयाथात्म्यावगमः सम्यग्ज्ञानम् ।२। नयौ च प्रमाणे च नयप्रमाणानि, तेषां विकल्पाः नयप्रमाणविकल्पाः । द्वौ नयौ द्रव्याथिकः पर्यायार्थिकश्च, द्वे प्रमाणे ५ प्रत्यक्ष परोक्षं च, तेषां विकल्पा नगमादयो मत्यादयश्च वक्ष्यन्ते । पूर्वशब्दस्तत्कारणवाची ।
नयप्रमाणविकल्पपूर्वको नयप्रमाणविकल्पहेतुक इत्यर्थः । येन येन प्रकारेण जीवादयः पदार्या अवस्थिताः तेन तेनावगमः जीवाद्यर्थयायात्म्यावगमः सम्यग्ज्ञानम । मोहसंशयविपर्ययनिवृत्त्यर्य सम्यग्विशेषणम् ।
'संसारकारणविनिवृत्ति प्रत्यागूर्णस्य ज्ञानवतो बाहयाभ्यन्तरक्रियाविशेषोपरमः' सम्यक्चारित्रम् ॥३॥ संसारः पञ्चविधः द्रव्यक्षेत्रकालभवभावपरिवर्तनभेदात् । तस्य कारणं कर्म अष्टिवयम्, तस्य विशेषेणात्यन्तिकी निवृत्तिः संसारकारविनिवृत्तिः, तां प्रत्यागूर्णस्योद्यतस्य, ज्ञानवत इति प्रशंसायां मतुः, यथा रूपवानिति प्रशंसायुक्तस्य सत्ता कथ्यते । नहि कस्यचिद्रूपं नास्ति, प्रशस्तं तु नास्ति, तथा ज्ञानमस्यास्तीति ज्ञानवानिति प्रशंसायुक्तस्य सत्ता
कथ्यते । न कस्यचिज्ज्ञानं नास्ति सर्व एवात्मा ज्ञानवान् चैतन्यात्, मिथ्यादर्शनोदये विपरीतार्थ१५ ग्राहित्वात् मिथ्यादृष्टिरज्ञः, तदभावे याथात्म्येनार्थविभावनात् सम्यग्दृष्टि: प्रशस्तज्ञानः,
तस्य ज्ञानवतः । क्रिया क्रियान्तराद्विशिष्यते येन स विशेषः, विशिष्टिी विशेषः । स द्विविधो बाह्य आभ्यन्तरश्चेति । बायो वाचिक: कायिकश्च बाहयेन्द्रियप्रत्यक्षत्वात्, आभ्यन्तरो मानसः छद्मस्थाप्रत्यक्षत्वात् , तस्योपरमः सम्यक्चारित्रिमत्युच्यते । स पुनः परमोत्कृष्टो भवति वीतरागेषु यथाख्यातचारित्रसंज्ञकः । आरातीयेषु संयतासंयतादिषु सूक्ष्मसाम्परायिकान्तेषु प्रकर्षाप्रकर्षयोगी भवति ।
ज्ञानदर्शनयोः करणसाधनत्वं कर्मसाधनश्चारित्रशब्दः ।४। ज्ञानं दर्शन मिति करणसाधनावेतौ शब्दो, *"करणाधिकरगयोः" [जैने० २।४।९९] इति युटो विधानात् । कर्मसाधनश्चारित्रशब्द: *"भूयदिगृभ्यो णित्रश्चरेवत्ते'[उणादि० ४।१७७-७८] इति कर्मणि विधानात् ।
ज्ञानदर्शनशक्तिविशेषशुद्धिसन्निधाने जीवादीनानात्मा जानाति पश्यति वा येन तज्ज्ञानं दर्शनं २५ च । चारित्रमोहोपशमक्षयक्षयोपशमसद्भावे चर्यते तदिति चारित्रम् ।
कर्तृकरणयोरन्यत्वादन्यत्वमात्मज्ञानादीनां परश्वादिवदिति चेत्, न; तत्परिणामादग्निवत् ।। स्यादारेका-ज्ञानदर्शनयोरात्मद्रव्यादन्यत्वम्, कस्मात् ? दृष्टत्वात् देवदत्तपरशवदिति; तन्ना कि कारणम् ? तत्परिणामादग्निवत् । यथा बाह्यद्रव्यादिपञ्चतयहेतुसन्निधाने सति आभ्यन्तरपरिणामवशात् 'तेजस्कायिकनामकर्मोदयाविर्भावितोष्ण्यपर्याय आत्मा
१ तथैव निर्वेक्ष्यमाणत्वात् सम्यग्ज्ञानलक्षणमिह निरुक्तिलभ्यं व्याचष्टे । २ सम्यक्चारित्रं निरुक्तिगम्यलक्षणमाह। ३ विनिवृत्तिः सम्यकचारित्रमित्युच्यमाने शीर्वोपहारादिषु स्वशीर्षाविद्रव्यनिवृत्तिः । कत्वाविस्वगुणनिवृत्तिश्च तन्माभूदिति क्रियाग्रहणम् । ४ बहिःक्रियायाः कायवाग्योगरूपाया एवं आभ्यन्तरक्रियाया एव वा मनोयोगरूपाया विनिवृत्तिः सम्यक्चारित्रं माभूदिति क्रियाया बाह्याभ्यन्तरविशेषणम् । लाभाद्यर्थ तदशक्रियाविनिवृत्तिरपि ( सन्माभूदिति संसारकारणनिवृत्ति प्रत्यागूणस्येति वचनम् ) नापि मिथ्यावृशः सा तद् भवति इति शानबत इति बचनात्। सम्पग्विशेषणायिह मानाभयता संसारकारण विनिवृत्तिता च लभ्यते । चरित्रशम्यात् बहिरभ्यन्तरक्रियाविनिवृत्तिता सम्पचारित्रस्य सिवा तबभाषे तभावानुपपत्तेः। ५-त्रमुच्यते ता० प्रा०,०,०।६ तेज- म०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org