________________
११]
प्रथमोऽध्यायः
३
**
बन्धकारणनिर्देशः कृतः * “विपर्ययाद् बन्धः " [सांख्य का० ४४ ] इत्यादि : ९, इह तु न कृतः, ततो मोक्षकारणनिर्देशस्यायुक्तिरिति; तन्न मिथ्यादर्शनादिवचनात् । वक्ष्यते एतत् -# "मिभ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ।" [त० सू०८/१] इति ।
•बन्धपूर्वकत्वान्मोक्षस्य प्राक् तत्कारणनिर्देश इति चेत् न, आश्वासनार्थत्वात् ॥ १५॥ स्यादारेका प्राङ, मोक्षकारणनिर्देशाद् बन्धकारणनिर्देशो न्याय्यः यतो बन्धपूर्वको मोक्ष इति ; तन्न; आश्वासनार्थत्वात् । कथम् ?
५
बन्धनबद्धवत् । १६। यथा काराबन्धनबद्धः प्राणी बन्धकारणश्रवणाद् बिभेति मोक्षकारणश्रवणादाश्वसिति तथा अनादिसंसारकारावरुद्ध आत्मा प्रथममेव बन्धकारणश्रवणात् मा भैषीत् मोक्षकारणश्रवणाच्च कथमाश्वासं यायादिति प्रथमं बन्धकारणमनुक्त्वा मोक्षकारणोपदेशः कृतः । किञ्च,
मिथ्यावादिप्रणीतमोक्षकारणनिराकरणार्थं वा ॥१७॥ मिथ्यावादिप्रणीतेकद्विमोक्षकारणनिराकरणार्थोऽयमार्हतो मोक्षकारणनिर्देश आदौ कृतः, ' त्रयमेतत् संगतं मोक्षमार्गों नैकशो द्विशो वा' इति ।
अतो विपर्ययमात्रप्रभवां संसारप्रक्रिया परिकल्प्य ज्ञानविशेषात्तद्विनिवृत्तिरित्येवमामिथ्यावादिप्रणीतमतनिवृत्तये त्रैविध्यविजृम्भितमोक्षकारणप्रदर्शनार्थमाह
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ||१|| ' इति ।
अपरे 'आरातीयपुरुष 'शक्त्यपेक्षत्वात्सिद्धान्तप्रक्रियाऽऽविष्करणार्थ मोक्षकारणनिर्देशसम्बन्धेन शास्त्रानुपूर्वी रचयितुमन्विच्छन् इदमवोचत्' इत्याचक्षते । नात्र शिष्याचार्य्यसम्बन्धो विवक्षितः । किन्तु संसारसागर' निमग्ना ने कप्राणिगणाभ्युज्जिहीर्षा प्रत्यागूर्णः ' ' अन्तरेण मोक्ष- २० मार्गोपदेशं हितोपदेशो 'दुःष्प्रापः' इति निश्चित्य मोक्षमार्ग व्याचिख्यासुरिदमाह ।
१ - वि इ-मु०, प्रा०, ब०, ६० । २ 'इति' नास्ति प्रा० । ३ - सव्यपेक्ष- ता० । ४ - रेनि ता०, ध०, ब० । ५ उखतः । ६ तुलना- "नर्ते व मोक्षमार्गाद् हितोपदेशोऽस्ति जगति कृत्स्नेऽस्मिन् ।” -त० भा० का० ३१ । ७ तत्र सम्यग्दर्शनस्य कारणभेदलक्षणानां वक्यमाणत्वाविह उद्देशमात्रमाह । ८ विशुद्ध मध्यवसायमित्यर्थः । e सास्नादिमत्वाविना गवादिः प्रश्वादेः । १० केसरावेः । ११ परोपदेशानपेक्षत्वमितियावत् ।
१०
प्रणिधानविशेषाहितद्वैविध्यजनितव्यापारं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् | १| प्रणिधानम् उपयोगः परिणामः' इत्यनर्थान्तरम् । 'येनार्थोऽर्थान्तराद्विशेष्यते यो वाऽर्थान्तरगतात्पर्यायाद्" विशिष्यते स विशेषः, विशिष्टिर्वा विशेषः, प्रणिधानमेव विशेषः प्रणिधान - विशेषः, प्रणिधानस्य वा विशेषः प्रणिधानविशेषः ९ । आहितम् आत्मसात्कृतं परिगृहीतम् इत्य- २५ नर्थान्तरम् । विधयुक्तगत प्रकाराः समानार्थाः । निसर्गाधिगमभेदाद् द्वौ विधावस्येति द्विविधम्, द्विविधस्य भावः कर्म वा द्वैविध्यम् । प्रणिधानविशेषेणाहितं प्रणिधानविशेषाहितम् । प्रणिधानविशेषाहितं द्वैविध्यमस्य प्रणिधानविशेषाहितद्वैविध्यम् । जनितः प्रादुर्भावितः व्यापृतिoffer: अर्थ प्रापणसमर्थः क्रियाप्रयोगः । जनितो व्यापारोऽस्य जनितव्यापारम् । कश्चास्य व्यापारः ? इह अन्तर्दर्शन मोहोपशमक्षयक्षयोपशमपर्यायपरिणामाद् बाह्यपरिणामकारणापा- ३० दिताद् आत्मनो जीवादिपदार्थविचारविषयोऽधिगमो निसर्गश्च व्यापारः । प्रणिधानविशेषा
Jain Education International
१५
For Private & Personal Use Only
www.jainelibrary.org