________________
तत्त्वार्थवार्तिके
[११ पराभिप्रायनिवृत्त्यशक्यत्वात् ।७। न च परस्य प्रष्टुः प्रश्नाभिप्रायोऽस्मदादिभिः शक्यो निवर्तयितु 'मा प्राक्षीर्मार्ग मोक्षं पृच्छ' इति', भिन्नरुचित्वाल्लोकस्य ।
कल्पनाभेदात्तद्विप्रतिपत्तिरिति चेत्, न; कर्मविप्रमोक्षसामान्यात् ।८। आह- न मोक्षं प्रति सम्प्रतिपत्तिरस्ति किन्तु विप्रतिपत्तिरेव । कस्मात् ? कल्पनाभेदात् । अन्येऽन्यथालक्षणं ५ मोक्षं परिकल्पयन्ति-'रूपवेदनासंज्ञा संस्कार विज्ञानपञ्चकस्कन्धनिरोधादभावो मोक्षः' इति । 'गुणपुरुषान्तरोपलब्धौ प्रतिस्वप्नलुप्तविवेकज्ञानवत् अनभिव्यक्तचैतन्यस्वरूपावस्था मोक्षः' इत्यपरे। 'बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारनवात्मगुणात्यन्तोच्छेदो मोक्षः' इत्यन्ये । तस्मात् कल्पनाभेदात् मोक्षं प्रति विप्रतिपत्तिरिति; तन्न; कर्मविप्रमोक्षसामान्यात् ।
सर्वेषां हि प्रवादिनां यां तामवस्था प्राप्य कृत्स्नकर्मविप्रमोक्ष एव मोक्षोऽभिप्रेत इति १० आस्माकीनसमयाविरोधात् मोक्षकार्य प्रति सम्प्रतिपत्तिः ।
कार्यविशेषोपलम्भात् कारणान्वेषणप्रवृत्तिरिति चेत्, न; अनुमानतस्तत्सिद्धर्घटीयन्त्रभ्रान्तिनिवृत्तिवत् ।९। आह-कार्यविशेषमुपलभ्य लौकिकाः कारणान्वेषणं प्रति आद्रियन्ते यथा ज्वरादिरोगदर्शनात्तत्कारणान्वेषणे भिषक् प्रवर्तते चिकित्साप्रसिद्धयर्थ तथा मोक्षदर्शनात्तत्कारणान्वेषणं न्याय्यम् । न चासो दृश्यते, तस्मान्मोक्षकारणान्वेषणाभाव इति; तन्न; अनुमानतस्तत्सिद्धेः । प्रत्यक्षतोऽनुपलभ्यमानस्यापि मोक्षकार्यस्यानुमानत उपलब्धौ मोक्षकारणान्वेषणं युक्तं घटीयन्त्रभ्रान्तिनिवृत्तिवत् । यथा बलीवर्दपरिभ्रमणापादितारगर्तभ्रान्ति घटीयन्त्रभ्रान्तिजनिकां बलीवर्दपरिभ्रमणाभावे चारगर्तभ्रान्त्यभावाद् घटीयन्त्रभ्रान्तिनिवृत्ति च प्रत्यक्षत उपलभ्य सामान्यतोदृष्टादनुमानाद् बलीवर्दतुल्यकर्मोदयापादितां चतुर्गत्यरगर्त भ्रान्ति शारीरमानसविविधवेदनाघटीयन्त्रभ्रान्तिजनिकां प्रत्यक्षत उपलभ्य ज्ञानदर्शनचारि'त्राग्निनिर्दग्धस्य कर्मण उदयाभावे चतुर्गत्यरगर्तभ्रान्त्यभावात् संसारघटीयन्त्रभ्रान्तिनिवृत्त्या भवितव्यमित्यनुमीयते । यासौ संसारघटीयन्त्र भ्रान्तिनिवृत्तिः स एव मोक्ष इति । तस्मादनुमानतो मोक्षकार्यसिद्धेरध्यवस्यामो मोक्षकारणान्वेषणं न्याय्यमिति। किञ्च,
सर्वशिष्टसम्प्रतिपत्तेः ।१०। सर्वे शिष्टाः प्रत्यक्षतोऽनुपलभ्यमानस्यापि मोक्षकार्यस्यानुमानादस्तित्वमभ्युपेत्य प्रतिनियतमोक्षकारणेषु प्रयतन्ते। किञ्च,
आगमात्तत्प्रतिपत्तेः।११। प्रत्यक्षतोऽनुपलभ्यमानोऽपि मोक्षः आगमादस्तीति निश्चीयते ।
कथम् ?
सूर्याचन्द्रमसोहगवत् ॥१२॥ यया सूर्याचन्द्रमसोर्ग्रहणममुष्यां वेलायाम् अमुना वर्णन अमुना 'दिग्विभागेन सर्वग्रासि नवेत्येवमादि सांवत्सरैरप्रत्यक्षमपि आगमाज्ज्ञायते तथा मोक्षोऽपीति। किञ्च,
स्वसमयविरोधात् ।१३। 'अप्रत्यक्षत्वात् मोक्षो नास्ति' इति यस्य मत तस्य स्वसमयविरोधो भवति । सर्वे हि समयवादिनो मोक्षादीनानप्रत्यक्षानभिवाञ्छन्ति ।
बन्धकारगानिर्देशादयुक्तमिति चेत्; न मिथ्यादर्शनादिवचनात् ।१४। स्यादेतत्-अन्यत्र
१-ति चेन्न भि-मु०, प्रा०, २०,व०।२ बौदाः । “प्रदीपस्येव निर्वाण विमोक्षस्तस्य चेततः।" -प्रमाणवातिकाल. ११४५। ३ निमित्तोद्ग्रहणात्मकं बिकल्पविज्ञानम् -सम्पा० ।। रागद्वेषादि -सम्पा०। ५ सांस्याः। “तदा द्रष्टः स्वरूपेऽवस्थानम्" -योगस. ११३। ६ वैशेषिकाः। "नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः।' -प्रश. व्यो०१० ६३८ । ७ -प्रान्निई -म०, मा०, २०, १०। ८ विग्भागेन मु०, मा०,०, ०। । -विरोषः मु०, प्रा०, ब०, २०। १० अगमविरोषः -सम्पा०। ११ सांख्याविज्ञास्त्रेषु -सम्पा०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org