________________
श्रीमद्भट्टाकलङ्कदेवविरचितं
तत्त्वार्थवार्तिकम्
प्रणम्य सर्वविज्ञानमहास्पदमुरुश्रियम् । 'निर्धूतकल्मषं वीरं वक्ष्ये तत्त्वार्थवार्तिकम् ॥१॥
श्रेयो मार्गप्रतिपित्सात्मद्रव्यप्रसिद्धः | १| उपयोगस्वभावस्यात्मनः श्रेयसा योक्ष्यमाणस्य प्रसिद्धौ सत्यां तन्मार्ग प्रतिपित्सोत्पद्यते । कथम् ?
fafeत्साविशेष प्रतिपत्तिवत् । २॥ यथा व्याधिनिवृत्तिजफलश्रेयसा योक्ष्यमाणस्य चिकित्स्यस्य प्रसिद्ध चिकित्सामार्ग विशेषप्रतिपित्सोत्पद्यते तथा आत्मद्रव्यप्रसिद्धौ श्रेयोमार्ग प्रतिपित्सेति । तस्मात् साधीयसी मोक्षमार्ग व्याख्या स्वायम्भवीति । किञ्च,
सर्वार्थप्रधानत्वात् ॥ ३॥ संसारिणः पुरुषस्य सर्वेष्वर्थेषु मोक्षः प्रधानम्, प्रधाने च कृतो यत्नः फलवान् भवति तस्मात्तन्मार्गोपदेशः कार्यः तदर्थत्वात् ।
मोक्षोपदेशः पुरुषार्थप्रधानत्वादिति चेत्; न; जिज्ञासमानार्थिप्रश्नापेक्षिप्रतिवचनसद्भा- १० वात् ॥४। आह मोक्षोपदेश एव कार्यो न मार्गोपदेशः । कस्मात् ? पुरुषार्थप्रधानत्वात् । सर्वश्रेयोभ्यः पुंसो मोक्ष एव परं श्रेयः आत्यन्तिकानुपमश्रेयस्त्वादिति; तन्न; जिज्ञासमानार्थिप्रश्नापेक्षिप्रतिवचनसद्भावात् । योऽसौ 'मोक्षणार्थी जिज्ञासमानः स मार्गमेव पृष्टवान् न मोक्षम्, अतस्तन्मार्गोपदेश एव न्याय्यः ।
मोक्षमेव कस्मान्नाप्राक्षोदिति चेत् ? नः कार्यविशेष सम्प्रतिपत्तेः । ५ । स्यादेतत्-अयं प्रष्टा १५ मोक्षमेव कस्मान्न पृष्टवान् कैमर्थक्यान्मार्ग पृष्टवानिति ? तन्न कार्यविशेषसम्प्रतिपत्तेः । कार्यप्रति सर्वेषां सद्वादिनां 'सम्प्रतिपत्तेर्न कारणं प्रति ।
Jain Education International
कारणं तु प्रति विप्रतिपत्तिः, पाटलिपुत्रमार्गविप्रतिपत्तिवत् । ६ । यथा केचित् पुरुषा नानादिग्भागापेक्षिषु मार्गेषु विप्रतिपद्यन्ते न पालिपुत्रे प्राप्तव्ये, तथा मोक्षकार्य प्रतिपद्य तदर्थमादृताः सर्वे सद्वादिनस्तत्कारणेषु' विप्रतिपद्यन्ते । तद्यथा, 'केचित्तावदाहु: - ज्ञानादेव २० मोक्ष इति । अपर आहुः - ज्ञानवैराग्याभ्यामिति । पदार्थावबोधो ज्ञानम्, विषयसुखानभिष्वङ्गलक्षणं वैराग्यमिति । ' अपर आहुः - क्रियात एव मोक्ष इति *" नित्यकर्महेतुक निर्वाणम्" [ ] इति वचनात् । किञ्च,
१निधत - मु० आ०, ब०, द० । २ - षप्रवृत्ति- मु०, प्रा०, ब०, ब० । ३ मोक्षेणायि जिमु०, प्रा०, ब०, ब० । ४ सम्प्रतिपत्तिनं मु०, प्रा०, ५०, द० । ५ ज्ञानचारित्रादिषु -सम्पा० । ६ नैयायिकाः - सम्पा० । ७ योगदर्शनिनः -सम्पा० । ८ मीमांसकाः - सम्पा० ।
५
For Private & Personal Use Only
www.jainelibrary.org