________________
४४२] चतुर्थोऽध्यायः
२६१ देशवशात् सप्तवचनप्रकारा भवन्तीति विकल्पान्तरप्रवृत्तिनिमित्ताभावात ।
अयं च मार्गः द्रव्याथिकपर्यायाथिकनयद्वयाश्रयः। तौ च संग्रहाद्यात्मको। ते चार्थनयरूपेण शब्दनयरूपेण च प्रवृत्ताः। तत्र संग्रहव्यवहारर्जु सूत्रा अर्थनयाः । शेषाः शब्दनयाः। तत्र संग्रहः सत्त्वविषयः, सकलं वस्तुतत्त्वं सत्त्वे अन्तर्भाव्य संग्रहात् । व्यवहारोऽसत्त्वविषयः विविक्तसत्त्व'परिग्रहादन्यापेक्षासत्त्वप्रतिपत्तेः । ऋजुसूत्रो वर्तमानविषयः अतीतानागतयोः ५ विनष्टानुत्पन्नत्वेन व्यवहाराभावात् । एते त्रयोऽर्थनया एकैकात्मकाः संयुक्ताश्च सप्त वाक्प्रकारान् जनयन्ति । तत्राद्यः संग्रह एकः, द्वितीयो व्यवहार एकः, तृतीयः संग्रहव्यवहारावविभक्तो. चतुर्थः संग्रहव्यवहारौ समुच्चित्तौ, पञ्चमः संग्रहः संग्रहव्यवहारौ चाविभक्तौ । षष्ठो व्यवहारः संग्रहव्यवहारौ चाविभक्तौ। सप्तमः संग्रहव्यवहारौ प्रचितौ तौ चाविभक्तौ । एष ऋजुसूत्रेऽपि योज्यः ।
'व्यञ्जनपर्यायास्त शब्दनया द्विविधं वचनं प्रकल्पयन्ति-अभेदेनाभिधानं भेदेन च। यथा शब्द पर्यायशब्दान्तरप्रयोगेऽपि तस्यैवार्थ स्याभिधानादभेदः। समभिरुढे वा प्रवृत्तिनिमित्तस्य अप्रवृत्तिनिमित्तस्य च घटस्याभिन्नस्य सामान्येनाभिधानात् । एवंभूतेषु प्रवृत्तिनिमित्तस्य 'भिन्नस्यैकस्यैवार्थस्याभिधानात् भेदेनाभिधानम् ।
अथवा, अन्यथा द्वैविध्यम्-एकस्मिन्नर्थेऽनेकशब्दप्रवृत्तिः, प्रत्यर्थ वा शब्दविनिवेश । इति । यथा शब्दे अनेकपर्यायशब्द वाच्य एकः । समभिरूढे वा नैमित्तिकत्वात् शब्दस्यकशब्दवाच्य एकः । एवंभूते वर्तमाननिमित्तशब्द एकवाच्य एकः । अत्र चोद्यते कथमेते अस्तित्वनास्तित्वादयो धर्माः विरुद्धरूपा एकस्मिन् वस्तुनि अविरोधमुपयान्तीति ? उच्यते
विरोधाभावस्तल्लक्षणाभावात् ।१८। नास्त्येषामादेशवशादर्प्यमाणानां विरोधः । कुतः ? तल्लक्षणाभावात् । इह विरोधः कल्प्यमानः त्रिधा व्यवतिष्ठते-वध्यघातकभावेन वा सहानवस्थात्मना वा प्रतिबन्ध्यप्रतिबन्धकरूपेण वा। तत्र वध्यघातकभावः अहिनकुलाग्न्युदकादिविषयः । स त्वेकस्मिन् काले विद्यमानयोः सति संयोगे भवति, संयोगस्यानेकाश्रयत्वात् द्वित्ववत् । नासंयुक्तमुकदमग्नि विध्यापयति "सर्वत्राग्न्यभावप्रसङगात् । ततः सति संयोगे बलीयसोत्तरकालमितरद्"बाध्यते। न चैवमस्तित्वनास्तित्वयोः क्षणमात्रमपि एकस्मिन् वृत्तिरस्ति, इति भवताऽभ्युपगम्यते, यतो वध्यघातकभावरूपो विरोधः तयोः कल्प्येत । अथैकस्मिन् "वृत्तिरभ्युपगम्येत तत्तुल्यबलहेतुसाध्यत्वात् तयोरन्यतरस्य बलीयस्त्वाभावात् वध्यघातकत्वाभावः । अतस्तल्लक्षणाभावात् नासौ विरोधः संभवति ।
२०
१ सति प्र-मु० ब० । २ सत्त्वापरि-मु०, २० । ३ एवं मु०। ४ स्थूलो व्यञ्जनपर्यायः । ५ शब्दनये ५ इन्द्रशक्रपुरन्दरादि। ६ इन्द्रस्य। ७ जलाहरणादिप्रवृत्ति, शचीपतेर्वा इन्दनादिक्रियानिमित्तस्य। ८ यदैव इन्दनक्रियया प्रवृत्तः तदेव शकनादेभिन्नः। शचीपतिः। १० बौद्धादिभिः। "तस्मान्न नित्यानित्यस्य वस्तुनः संभवः क्वचित् । अनित्यं नित्यमयवाऽस्तु एकान्तेन युक्तिमत् ॥" -प्रमाणवातिकाल० लि. प० २३५। "ध्रौव्येण उत्पादव्यययोविरोधात् एकस्मिन् धर्मिण्ययोगात।" -हेतुबि० टी० लि०० लि. प० २१६। "विधानप्रतिषेधो हि परस्परविरोधिनौ। शक्यावकत्र नो कर्तु केनचित् स्वस्थचेतसा ॥१७३० ॥"-तरवसं० । कस्मिन्नसंभवात्- नोकस्मिन्- मिणि युगपत्सवसस्वादिविस्वधर्मसमावेशः संभवति शीतोष्णवत्"-ब्रह्मसू०, शां० भा० २।२।२३। ११ यदि विष्यापयंसहि परमतमल्लिख्येवमाह-। १२ कर्मतापन्नम्। १३ कथम् । १४ स्वमतापेक्षया माह । १५ मस्तित्वनास्तित्वयोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org