________________
२६२
[ ४४२
नापि सहानवस्थानलक्षणो विरोधः तल्लक्षणाभावात् । स ह्ययुगपत्कालयोर्भवति यथा आम्रफले श्यामतापीततयोः । पीततोत्पद्यमाना पूर्वकालभाविनीं श्यामतां निरुणद्धि । न च तथा जीवस्यास्तित्वनास्तित्वे पूर्वोत्तरकालभाविनी । यदि स्याताम् अस्तित्वकाले नास्तित्वाभावात् जीवसत्तामात्रं सर्वं प्राप्नुवीत । नास्तित्वकाले च अस्तित्वाभावात्तदाश्रयो बन्ध५. मोक्षादिव्यवहारो विरोधमुपगच्छेत् । सर्वथैवासतः पुन आत्मलाभाभावात्, सर्वथा च सतः पुनरभाव प्राप्त्यनुपपत्तेः नैतयोः सहानवस्थानं युज्यते ।
तत्वार्थवार्तिके
तथा जीवादिषु प्रतिबन्ध्यप्रतिबन्धकभावोऽपि न विरोधः संभवति । यथा स फलवृन्तसंयोगे प्रतिबन्धके गौरवं पतनकर्म' नारभते प्रतिबन्धात्, तदभावे तु पतनकर्म दृश्य *"संयोगाभावे गुरुत्वात् पतनम् " [ वैशे० सू० ५।१।७] इति वचनात् । न च तथा १० अस्तित्वं नास्तित्वस्य प्रयोजनं प्रतिबध्नाति तस्मिन्नेव काले परद्रव्यादिरूपेणानुपलब्धिबुद्धयुत्पत्तिदर्शनात् । नास्तित्वं वा 'सदस्तित्वप्रयोजनं प्रतिबध्नाति तदैव " स्वरूपाद्यपेक्षयोपलब्धिबुद्धिदर्शनात् । तस्मात् वाङ्मात्रमेव विरोधः । एवमर्पणाभेदादविरुद्धोऽनेकात्मको जीव इति स्थितमेतत् ।
इति तस्यार्थवार्तिके व्याख्यानालङ्कारे चतुर्थोऽध्यायः ।
Jain Education International
१ कर्मतापन्नम् । २ फलवृन्तयोः । ३ विद्यमानं सत् । ४ नास्तित्वकाले । ५ - यः समाप्तः भ० ।
For Private & Personal Use Only
www.jainelibrary.org