________________
२६०
तत्त्वार्थवार्तिके
[४१४२ इति अस्यां कल्पनायां नास्तित्वम् । यश्च वस्तुत्वेन सन्निति द्रव्यार्थाश: यश्च तत्प्रतियोगिनाऽवस्तुत्वेनाऽसन्निति पर्यायांशः, ताभ्यां युगपदभेदविवक्षायाम् अवक़्तव्य इति द्वितीयोंऽशः। तस्मानास्ति चावक्तव्यश्चाऽऽत्मा । अयमपि सकलादेशः शेषवाग्गोचरस्वरूपसमूहस्याऽविनाभावात् तत्रैवान्तर्भूतस्य स्याच्छब्देन द्योतितत्वात् ।।
तथा सप्तमो विकल्पः चतुभिरात्मभिः वयंशः। द्रव्यार्थविशेषं कञ्चिदाश्रित्याऽस्तित्वं पर्यायविशेषं च कञ्चिदाश्रित्य नास्तित्वमिति समुच्चितरूपं भवति, द्वयोरपि प्राधान्येन विवक्षितत्वात् । द्रव्यपर्याय विशेषेण च केनचित् द्रव्यपर्यायसामान्येन च केनचित् युगपदवक्तव्यः इति तृतीयोंऽशः। ततः स्यादस्ति च नास्ति चाऽवक्तव्यश्च आत्मा। अयमपि
सकलादेश., यतः सर्वान् द्रव्यार्थान् द्रव्यमित्यभेदादेकं द्रव्यार्थ मन्यते । सर्वान् पर्यायार्थाश्च १० पर्यायजात्यभेदादेकं पर्यायार्थम् । अतो विवक्षितवस्तुजात्यभेदात् कृत्स्नं वस्तु एकद्रव्यार्थाभिन्नम् एकपर्यायाभेदोपचरितं वा एकमिति सकलसंग्रहात्। अथ कथं विकलादेश: ?
निरंशस्यापि गुणभेदादंशकल्पना विकलादेशः ।१६। स्वेन तत्त्वे'नाप्रविभागस्यापि वस्तुनो विविक्तं गुणरूपं स्वरूपोपरञ्जकमपेक्ष्य प्रकल्पितमंशभेदं कृत्वा अनेकात्मकैकत्व
व्यवस्थायां 'नरसिंहसिंहत्ववत् समुदायात्मकमात्मरूपमभ्युपगम्य 'कालादिभिरन्योन्यविषयानु१५ प्रवेशरहितांशकल्पनं विकलादेशः, नतु केवलसिंह सिंहत्ववत् एकात्मकैकत्वपरिग्रहात् । यथा
वा पानकमनेकखण्डदाडिमकपूरादिरसानुविद्धमास्वाद्य अनेकरसात्मकत्वमस्यावसाय पुनः स्वशक्तिविशेषादिदमप्यस्तीदमप्यस्तीति विशेषनिरूपणं क्रियते, तथा अनेकात्मकैकवस्त्वभ्युपगमपूर्वकं हेतुविशेषसामर्थ्यात् अर्पितसाध्यविशेषावधारणं विकलादेशः । कथं पुनरर्थस्याऽ
भिन्नस्य गुणो भेदकः ? दृष्टो हि अभिन्नस्याप्यर्थस्य गुणस्तत्त्वभेदं कल्पयन् यथा परुत् २० भवान् पटुरासीत् पटुतर एषम' इति गुणविविक्तरूपस्य द्रव्यस्याऽसंभवात् गुणभेदेन गुणिनोऽपि भेदः ।
तत्रापि तथा सप्तभङगी।१७। तत्रापि विकलादेशे तथा आदेशवशेन सप्तभङगी वेदितव्या । कथम् ? गुणिभेदकेष्वंशेषु क्रमेण योगपद्येन क्रमयोगपद्याभ्यां वा विवक्षावशात्
विकलादेशा भवन्ति । तत्र प्रथमद्वितीययोरप्रचितः क्रमः, तृतीये योगपद्यम्, चतुर्थे प्रचितः २५ क्रमः, पञ्चमे षष्ठे वा अप्रचितक्रमयोगपद्ये, सप्तमे प्रचितक्रमयोगपद्ये। तद्यथा सर्व
सामान्यादिषु द्रव्यार्थादेशेषु केनचिदुपलभ्यमानत्वात् स्यादस्त्येवात्मेति प्रथमो विकलादेशः । अत्रेतरेषां वस्तुनि सतामपि कालादिभिर्भेदविवक्षात: शब्दवाच्यत्वेनान्तर्भावाभावान्निरासाभावाच्च न विधिन प्रतिषेधः। एवं शेषभङगेष्वपि विवक्षितांशमात्रप्ररूपणायां इतरेष्वौ
दासीन्येन विकलादेशकल्पना योज्या। ननु च सामान्यार्थाविच्छेदेन विशेषणविशेष्यसंबन्धा३० वद्योतनार्थे एवकारे सति तदवधारणादितरेषां निवृत्तिः प्राप्नोति ? नैष दोषः; अत्राप्यत एव
स्याच्छब्दप्रयोगः कर्तव्यः 'स्यादस्त्येव जीवः' इत्यादि । कोऽर्थः ? एवकारेणेतरनिवृत्तिप्रसङगे स्वात्मलोपात् सकलो लोपो मा विज्ञायीति वस्तुनि यथावस्थितं विवक्षितधर्मस्वरूपं तथैव द्योतयति स्याच्छब्दः । *"विवक्षितार्थवागङगम्" [ ] इति वचनात् । एवमा
१- नाप्रविष्टभा-मु०, ०। २ नरसिंहत्ववत् २०। ३ प्रागुक्त । ४ अर्थभेवम् । ५ गतवर्षे स०। पदर्भवानपदरासीत् पदतर श्र०। पदर्भवान् परदासीत् पद्तर मू०। पतत् भवान पट. रासीत् पटुतर मु०, मू००। ६ इह संवत्सरे। ७ नैयायिकमतमाशक्य निराकरोति । ८ प्रागुक्तसर्वसामान्येन तवभावेन चेत्यादिवाक्येष। ४ नास्तित्वस्य। १० स्याच्छन्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org