________________
४४२]
चतुर्थोऽध्यायः आत्मानात्मत्वसदसत्त्वाभ्यामवक्तव्यः। आभ्यामेव क्रमेणापिताभ्यामुभयरूपं वस्तूच्यते इति चतुर्थः । विशिष्टसामान्येन तदभावसामान्येन च-यथाश्रुतत्वात् आत्मत्वेनैवास्तीति प्रथमः । अभ्युपगमविरोधभयात् वस्त्वन्तरात्मना क्षित्युदकज्वलनघटपटगुणकर्मादिना सर्वेण प्रकारेण सामान्यतो नास्तीति द्वितीयः । आभ्यामेव युगपदात्मघटादिसदसत्त्वाभ्यामवक्तव्यः । क्रमेण तु वाच्यत्वात् चतुर्थः । विशिष्टसामान्येन तद्विशेषेण च-आत्मसामान्येनास्त्यात्मा । आत्म- ५ विशेषेण मनुष्यत्वेन 'नास्ति। आत्मत्वमनुष्यत्वापेक्षाभ्यां सदसत्त्वाभ्याम् एकत्वे युगपदवक्तव्यः। पर्यायेणाभिधेयत्वाच्चतुर्थः । सामान्येन विशिष्टसामान्येन च-अविशेषरूपेण द्रव्यत्वेन अस्त्यात्मा। विशिष्टेन सामान्येन प्रतियोगिनाऽनात्मत्वेन नास्त्यात्मा । ताभ्यां तु द्रव्यत्वानात्मत्वसदसत्त्वाभ्यां युगपदवक्तव्यः । क्रमेण ताभ्यां वक्तव्यत्वात् चतुर्थः । द्रव्यसामान्येन गुणसामान्येन च वस्तुनस्तथा तथा संभवात् तां तां विवक्षामाश्रित्याविशेषरूपेण १० द्रव्यत्वेनास्त्यात्मा, तत्प्रतियोगिना विशेषरूपेण गुणत्वेन नास्त्यात्मा। ताभ्यां तु द्रव्यत्वगुणत्वसदसत्त्वाभ्यां युगपदवक्तव्यः। क्रमेण तदुभयवाग्गोचरत्वाच्चतुर्थः। धर्मसमुदायेन तद्वयतिरेकेण च-त्रिकालगोचरानेकशक्तिज्ञानादिधर्मसमुदायरूपेणाऽऽत्मास्ति। तद्वयतिरेकेण नास्त्यनुपलब्धेः । ताभ्यां युगपदवक्तव्यः । क्रमेण अभिधेयतामनुभवति इति चतुर्थः। धर्मसामान्यसंबन्धेन तदभावेन च-गुणरूपगतसामान्यसंबन्धविवक्षायां यस्य कस्यचित् धर्मस्य १५ आश्रयत्वेन अस्त्यात्मा। न तु कस्यचिदपि धर्मस्याश्रयो न भवतीति धर्मसामान्यानाश्रयत्वेन नास्त्यात्मा। आभ्यां युगपदवक्तव्यः । पर्यायेण तु तदुभयविशेष्यत्वात् चतुर्थः । धर्मविशेषसंबन्धेन तदभावेन च-'अनेकवर्मणोऽन्यतमधर्मसंबन्धेन तद्विपक्षेण वा विवक्षायाम्, यथा अस्त्यात्मा नित्यत्वेन निरवयवत्वेन चेतनत्वेन वा, तेषामेवान्यतमधर्मप्रतिपक्षेण नास्त्यात्मा । युगपत्ताभ्यामवक्तव्यः । क्रमेण तदभिधानविषयत्वाच्चतुर्थः ।
पञ्चमो भङग उच्यते-त्रिभिः आत्मभियंशः। जीवस्यानेकद्रव्यात्मकस्याऽनेकपर्यायात्मकस्य च किञ्चिद् द्रव्यार्थविशेषं पर्यायार्थविशेषं वा आश्रित्यास्तीत्युच्यते एक आत्मा', तस्यैवाऽन्य आत्मा द्रव्यसामान्यं पर्यायसामान्यं तद्विशेषद्वयं वाऽङगीकृत्य युगपदविभागविवक्षायां वचनगोचरातीतः। यथा स्यादस्त्यात्मा द्रव्यत्वेन, द्रव्यविशेषेण वा जीवत्वेन, मनुष्यत्वादिना वा। द्रव्यपर्यायसामान्यमुररीकृत्य वस्तुत्वसत्त्वमवस्तुत्वासत्त्वं च युगपद- १८ भेदविवक्षायामवाच्यः। विशेषद्वयं वा मनुष्यत्वामनुष्यत्वादि, यतः सर्वेऽपि तस्यैकस्यैव ते आत्मानो विद्यन्ते तदैवेति । ततः स्यादस्ति चाऽवक्तव्यश्च जीवः । अयमपि सकलादेशः, अंशाभेदविवक्षायाम् एकांशमुखेन सकलसंग्रहात् ।
___ तथा षष्ठः त्रिभिः आत्मभिर्द्वयंशः। यतो वस्तुगतं नास्तित्वमवक्तव्यरूपानुविद्धं नान्तरेणात्मभेदं शक्यं कल्पयितु वस्तुनस्तथापि भावात् । तत्र नास्तित्वं पर्यायाश्रयम् । स १० च पर्यायो युगपद्वृत्तः क्रमवृत्तो वा। सहवृत्तो जीवस्य पर्यायः अविरोधात् सहावस्थायी सहवृत्तेः गतीन्द्रियकाययोगवेदकषायज्ञानसंयमादिः । क्रमवर्ती तु क्रोधादिदेवादिबाल्याद्यवस्थालक्षणः । तत्र गत्यादिव्यतिरिक्तः क्रोधादिक्रमवृत्तधर्मरूपनरन्तर्यमात्रादर्थान्तरभूत एकोऽवस्थितो द्रव्यार्थी जीवो नाम नास्ति, किन्तु त एव धर्मास्तथा सन्निविष्टा जीवव्यपदेशभाजः
१ नास्त्यात्मा मु०। २ निरूप्यन्ते । ३ नेकमिणो मु०, ६०। ४ अंशः । ५ प्रवक्तव्य । ६ पात्मनो म०, ता०, ८०। ७ सत्याम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org