________________
२५८
तत्त्वार्थवार्तिके
[ ४४२
रक्तं अन्नोपकारसारूप्यम्, यतः तदभेदेन' शब्दो वाचकः स्यात् । न चैकदेशेन गुणिन उपकारः संभवति येनैक देशोपकारेण सहभावो भवेत् नीलादेर्गुणस्य । कृत्स्नस्य हि गुणस्योपकारकत्वं द्रव्यस्य च पटादेः समस्तस्योपकार्यत्वम्, गुण उपकारको गुणी उपकार्य इति । न चैकदेशो गुणगुणिनोः । अतः कृत्स्नयोः उपकार्योपकारकरूपसिद्धिर्न देशेन यतो ५ देशतः सहभावात् कश्चिच्छब्दो वाचकः कल्प्येत । न चैकान्तपक्षे गुणानां संसृष्टमनेकात्मकं रूपमस्ति अवधूतैकान्तरूपत्वात् सत्त्वासत्त्वादेर्गुणस्य । यदा शवलरूपव्यतिरिक्तौ परस्परfafari शुक्लकृष्ण गुणी असंसृष्टो नैकस्मिन्नर्थे सह वर्तितुं समर्थो अवधृतरूपत्वात्, अतः ताभ्यां संसर्गाभावात् एकान्तपक्षे न युगपदभिधानमस्ति अर्थस्य तथा वर्तितु शत्तयभावात्, तद्विधस्य च अर्थसंबन्धस्याऽभावात् । न चैकः शब्दो द्वयोर्गुणयोः सहवाचकोऽस्ति । यदि स्यात् १० सच्छन्दः स्वार्थवदसदपि सत्कुर्यात् असच्छन्दोऽपि स्वार्थवत् सदपि असत्कुर्यात्, न च तथा लोके संप्रत्ययोऽस्ति 'तयोविशेषशब्दत्वात् । एवमुक्तात् कालादियुगपद्भावासंभवात् । शब्दस्य च एकस्य उभयार्थवाचिनोऽनुपलब्धेः अवक्तव्य आत्मा ।
अथवा वस्तुनि मुख्यप्रवृत्त्या तुल्यबलयोः परस्पराभिधानप्रतिबन्धे सति 'इष्टविपनिर्गुणत्वापत्तेः विवक्षितोभयगुणत्वेनाऽनभिधानात् अवक्तव्यः । अयमपि सकलादेशः १५ परस्पराव वारितविविवरूपैकात्मकाभ्यां गुणाभ्यां गुणविशेषणत्वेन युगपदुपक्षिप्ताभ्याम् अविवक्षितांशभेदस्य वस्तुनः समस्तस्य एकेन गुणरूपेणाभेदवृत्त्या अभेदोपचारेण वाऽभिधातु प्रक्रान्तत्वात् । स च अवक्तव्यशब्देन अन्यैश्च षड्भिर्वचनैः " पर्यायान्तरविवक्षया च वक्तव्यत्वात् स्यादवक्तव्यः । यदि सर्वथा अवक्तव्यः स्यात् अवक्तव्य इत्यपि चाऽवक्तव्यः स्यात् fat बन्धमोक्षादिप्रक्रियाप्ररूपणविधिः ?
२०
२५
३०
ताभ्यामेव क्रमेणाभिधित्सायां तथैव वस्तुसकलस्वरूपसंग्रहात् चतुर्थोऽपि विकल्पः सकलादेशः । अयमपि स्यादित्येवार्पयितव्यः, सर्वथोभयात्मकत्वे परस्परविरोधात् उभयदोषप्रसङ्गाच्च । कथमेते "निरूप्यन्ते ? सर्वसामान्येन तदभावेन च, विशिष्टसामान्येन तदभावेन च विशिष्ट सामान्येन तदभावसामान्येन च विशिष्टसामान्येन तद्विशेषेण च, सामान्येन विशिसामान्येन च द्रव्यसामान्येन गुणसामान्येन च धर्मसमुदायेन तद्व्यतिरेकेण च, धर्मसामान्यसम्बन्धेन तदभावेन च, धर्मविशेषसंबन्धेन तदभावेन च ।
तद्यथा सर्वसामान्येन तदभावेन च " इह द्विविधोऽर्थः श्रुतिगम्योऽर्थाधिगम्यश्च । तत्रानपेक्षितवृत्तिनिमित्तः श्रुतिमात्रप्रापितः श्रुतिगम्यः । अर्थप्रकरणसंभवाभिप्रायादिशब्दन्यायात् कल्पितोऽर्थाधिगम्यः । तत्र आत्मा अस्तीति सर्वप्रकारानाश्रयणादिच्छावशात् कल्पितेन सर्वसामान्येन" वस्तुत्वेन अस्तीति प्रथमः । तत्प्रतिपक्षेणाऽभावसामान्येनावस्तुत्वेन नास्त्यात्मा इति द्वितीयः । आभ्यामेव युगपदभेदविवक्षायां वाचकाभावान्नाभिधीयत इति तृतीयः । आभ्यामेव क्रमेणापिताभ्यामुभयरूपं वस्तु उच्यते इति चतुर्थः । विशिष्ट सामान्येन तदभावेन च यथाश्रुतत्वात् श्रुत्युपात्तेन आत्मनैवाभिसंबन्धः, ततश्चात्मत्वेनैव अस्त्यात्मा इति प्रथमः । यथाश्रुतप्रतियोगित्वात् अनात्मत्वेनैव नास्त्यात्मा इति द्वितीयः । युगपदुभाभ्यां
१ उपकाराभेदेन । २ किन्तु कृत्स्नेनैव । ३ कथम् । ४ एकदेशतः । ५ यथा मु०, ६०, ता० । ६ अस्तित्वनास्तित्वयोः । ७ टा - तृतीयेत्यर्थः - स० । ८ दृष्टविद० मु० । ६ नियत । १० अङ्गीकृताभ्याम् । ११ श्रात्मा । १२ भङ्गः । १३ चत्वारो भङ्गाः । १४ निरूप्यन्ते । १५ कोऽर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org