________________
४४२]
चतुर्थोऽध्यायः निरूप्येत स्वप्नज्ञानवत् असदाकारेणैव निरूप्येत-'नास्ति ज्ञानम् 'असदाकारनिरूप्यत्वात् खरविषाणवत् । अभिधानमपि नास्ति । तद्धि पदरूपं वा स्यात्, वाक्यरूपं वा ? 'तन्नास्त्येव अयुगपत्कालावयवत्वात् । यत्पुनरेत्-जीवशब्दग्रहणं तत्परिकल्पितर्वर्णभागैरनुक्रमेणाऽऽहितशक्तिकासु वुद्धिषु शक्तिपरिपाकप्राप्तौ' प्रत्यस्तमितसकलवर्णभागविषयविज्ञानं जीवशब्दत्वेन अध्वसीयते नत्वभिधानजीवः कश्चिदस्ति। तदपि विज्ञानं क्षणिकत्वात् प्रत्यर्थवशवर्तित्वाच्च ५ एकस्य 'पूर्वापरीभूतार्थप्रत्यवभासनासंभवान्नास्त्येवेति । यद्येवं वाच्यवाचकसंबन्धो लोके रूढः प्रत्याख्यातः स्यात् ततश्च लोकविरोधः, तन्नास्तित्वे परीक्षाप्रयासश्च विफल: स्यात् इत्यभ्युपगन्तव्यमु-जीवः स्यादस्ति स्यान्नास्तीति । अतः द्रव्यार्थिकः पर्यायाथिकमात्मसात्कुर्वन् 'व्याहियते, पर्यायाथिकोऽपि द्रव्यार्थिकमिति उभावपि इमो सकलादेशौ।
तृतीयो विकल्पः उच्यते-द्वाभ्यां गुणाभ्यामेकस्यैव अभिन्नस्या भेदरूपेण युगपद्वक्तु- १० मिष्टत्वात्। तत्र यथा प्रथमद्वितीययोविकल्पयोरेकस्मिन् काले एकेन शब्देन एकस्यार्थस्य समस्तस्यैव एकेन गुणरूपेणाभिधानं क्रमात्, एवं यदा द्वाभ्यां प्रतियोगिभ्यां गुणाभ्यामवधारणाक्ताभ्यां युगपदेकस्मिन् काले एकेन शब्देन एकस्यार्थस्य कृत्स्नस्यैवाभेदरूपेणाभिधित्सा तदा अवाच्यः तद्विधार्थस्य शब्दस्य चाऽभावात् । तत्र युगपद्भावो गुणानां कालादिभिरभेदेन विवक्षितानां वृत्तिः, न च तैरभेदोऽत्र सम्भवति। १५
के पुनस्ते कालादयः ?
काल आत्मरूपमर्थः सम्बन्धः उपकारो गणिदेशः संसर्गः शब्द इति। तत्र येन कारणेन विरुद्धा भवन्ति गुणास्तेषामेकस्मिन् काले क्वचिदेकवस्तुनि वृत्तिर्न दृष्टा अतस्तयोर्नास्ति वाचकः शब्दः तथावृत्त्यभावात् । अत एकस्मिन्नात्मनि सदसत्त्वे प्रविभक्ते "असंसर्गात्मरूपे अनेकान्तरूपे न स्तः । एककाले" येनात्मा तथोच्येत ताभ्यां विविक्तं च परस्परत आत्मरूपं २० गुणानी नान्योन्यात्मनि वर्तते, यत उभाभ्यां युगपदभेदेनोच्येत । न च विरुद्धत्वात् सदसत्त्वादीनाम् एकान्तपक्षे गुणानामेकद्रव्याधारा वृत्तिरस्ति यतः अभिन्नाधारत्वेनाऽभेदो युगपद्भावः स्यात्, 'येन केनचित् शब्देन वा सदसत्त्व उच्येयाताम् । न च सम्बन्धतोऽभिन्नता गुणानां संभवति भिन्नत्वात् संबन्धस्य । यथा छत्रदेवदत्तसम्बन्धोऽन्यः दण्डदेवदत्तसंबन्धात् । कारणयोः
संबन्धिनोभिन्नत्वात् न तावेकेन संबन्धेनाभिन्नौ । एवं सदसत्त्वयोरात्मना सह संबन्धस्य २५ भिन्नत्वात् न संबन्धेनापि युगपत्तिसंभवः "यत: शब्देनोच्यते । समवाय इति चेत्, न; . तेनापि भिन्नेन भवितव्यं भिन्नाभिधानप्रत्ययहेतुत्वात् संयोगवत् । न च गुणा उपकारेणाऽभिन्नाः; यतो द्रव्यस्य गुणाधीन उपकारो नीलरक्ताद्युपरञ्जनम्, ते च स्वरूपतो भिन्नाः । यच्च तेषामात्मनि नीलरक्तत्वाद्यस्ति रूपं यावच्च नीलनीलतरादि तावता द्रव्यं रञ्जयति अतस्तेषामुपकारोऽपि भिद्यत एव । एवं सदसत्त्वयोभिन्नत्वात् सत्त्वेनोपरक्तं सत् असत्त्वेनोप- ३०
१ तथा सति। २ असदाकारत्वात् म०,०।३ द्वयमपि । ४ कालाश्च अवयवाश्च कालावयवाः, न विद्यन्ते यगपत्ते ययोस्ते तथोक्ते तयोर्भावः तस्मात् । ५ अन्त्यवर्ण इत्यर्थः । ६ "नादेनाहितबीजायामन्येन ध्वनिना सह। प्रावत्तिपरिपाकायां बुद्धौ शब्दोऽवभासते॥-वाक्यप० १२५॥ ७ वर्तमानार्थ। ८व्याप्रियते म०, द.। अभिधीयते। अविकलस्य समस्तस्यत्यर्थः । १० -जारमकाभ्यां म०, ता०, २०, मू०। ११ नाम । १२ प्रवक्तव्ये । १३ कोऽर्थः । १४ कथम् । १५ मध्ये। १६ प्रन्यो गुणः अन्यतरगुणे। १७ कयम् । १८ अंशरहितेन । १६ कथम् । २० न सं-श्र० । २१ हस्तवण्डयोः। २२ कथम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org