________________
५
१०
१५
२०
२५
२५६
तत्त्वार्थवार्तिके
[ ४४२
इति ; तदयुक्तम् । किञ्च घटे' अर्थत्वात् अर्थसामान्यात् पटादिसर्वार्थप्रसङ्गः संभवत्येव । 'तत्र विशिष्टं घटार्थत्वम् अभ्युपगम्यमानं पटादिसत्तारूपस्यार्थसामर्थ्यं प्रापितस्य अर्थ - तत्त्वस्य निरासेनैव आत्मानं शक्नोति लब्धुम् इतरथा हि असौ धटार्थ एव न स्यात् पटाद्यर्थरूपेणाऽनिवृत्तत्वात् पटाद्यर्थस्वरूपवत्, विपरीतो वा । यश्चास्य' पटादिरूपेणाभावः सोऽपि घटधर्म एव तदधीनत्वात् भाववत् ' अतोऽसौ स्वपर्याय एव, परेण तु विशेष्यमाणत्वात् परपर्याय इत्युपचर्यते । स्वपरविशेषणायत्तं हि वस्तुस्वरूपप्रकाशनमिति ।
अथ 'अस्त्येव जीवः' इत्यत्राऽस्तिशब्दवाच्यादर्थात् भिन्नस्वभावो वा जीवशब्दवाच्योऽर्थः स्यात्, अभिन्नस्वभावो वा ? यदि अभिन्नस्वभावः, ततो यत् सदर्थस्य रूपं जीवशब्दार्थस्यापि तदेव रूपमिति ततोऽन्यधर्मानवकाशत्वादविशिष्टार्थता स्यात् । ततश्च सामानाधिकरण्य' विशेषणविशेष्यत्वाभावो घटकुटशब्दवत् अन्यतराप्रयोगश्च स्यात् । किञ्च, सत्त्वस्य सर्वद्रव्यपर्यायविषयत्वात् तदभिन्नस्वभावस्य जीवस्यापि तादात्म्यमिति सर्वस्य तत्त्वस्याऽविशिष्टैकजीवत्वप्रसङ्गः । सत्स्वभावत्वाच्च जीवस्वरूपचैतन्यतद्विकल्पज्ञानादिक्रोधादिनारकत्वादिसर्व विशेषणाभावत्वप्रसङ्गश्च स्यात् । जीवस्वभावत्वाद्वा अस्तित्वस्य 'स्वात्मनि पुद् गलादिषु च सत्प्रत्ययाभिधानहेतुत्वाभावो जीवत्ववत् ।
अथायं दोषो माभूत् इति अस्तिशब्दवाच्यात् अर्थात् भिन्नस्वभावो जीवशब्दार्थः प्रतिज्ञायेत; एवमपि स्वतो जीवस्याऽसद्रूपत्वप्रसङ्गः । ततश्च नास्ति जीवोऽस्तिशब्दवाच्याविविक्तत्वात् खरविषाणवत्, "विपर्ययो वा । ततश्च तदधीनबन्धमोक्षादिव्यवहाराभावः । अस्तित्वस्य च जीवादर्थान्तरत्ववत्, इतरेभ्योपि भिन्नत्वात् निराश्रयत्वादभाव एवेति तदाश्र यव्यवहाराभावः । किञ्च, अस्तित्वाद्भिन्नस्वभावस्य जीवस्य कः स्वभाव इति वक्तव्यम् ? यश्चास्य स्वभाव इत्युच्यते स सर्वो न स्यात् असत्स्वभावत्वात् खपुष्पवत् । तस्मात् स्याद्भिनार्थत्वं स्यादभिन्नार्थत्वं चाभ्युपगन्तव्यम् । पर्यायार्थादेशात्" "भवनजीवनभेदात् अस्तिजीवशब्द" स्याद्भिन्नार्थी । द्रव्यार्थादेशात् तदव्यतिरेकात् तद्ग्रहणेन ग्रहणात् स्यादभिन्नार्थी । तस्मात् स्यादस्ति स्यान्नास्तीति सिद्धम् ।
इतरच, स्यादस्ति स्यान्नास्ति " अर्थाभिधानप्रत्ययानां "तथाप्रसिद्धेः ।
कश्चिदाह - जीवार्थी जीवशब्दो जीवप्रत्ययः इत्येतत्त्रितयं लोके "अविचारसिद्धम्तथाहि वर्णाश्रमिणः अस्तित्वमेवाश्रित्य तासु तासु क्रियासु प्रवृत्ताः तस्मादस्त्येवेति । "तमितरः प्रत्याह- नास्त्येवैतत्त्रि तयम् - अर्थस्तावन्नास्त्यनुपलब्धेः "विज्ञानमेव " तथा परिणतं स्वप्नवत् कल्पयति । प्रत्ययजीवोऽपि नास्त्येव विज्ञानस्य ज्ञेयरूपेणाऽनाख्येयत्वात्" । "स्वतस्तु विज्ञानं न जीवो नाप्यजीवः प्रकाशमात्रं केनचिदपि रूपेण " अनिरूप्यत्वात् यद्यपि
८ - प्याभा
१ तावदर्थत्वात् घटे प्रसक्तं पटादिसत्वं प्रदर्शयति । २ तथा सति । ३ कर्तृ । ४ - र्थ्यात्प्रापि - द० मु० । ५ घटस्य । ६ घटास्तित्वंवत् । ७ घटस्य । वाद् विशे- मु० । ६ जीवे । श्रात्मनि मु०, द० । १० अस्ति खरविषाणम् प्रस्तिशब्दवाच्यार्थं विविक्तत्वात् जीववत् । ११ तदेव विवृणोति । १२ अस्ति अस्तित्व । १३ - शब्दौ तद्व्यतिरेकेण तद्ग्रहणेनाग्रहणात् स्याद्भि- मु० । १४ जीव इति । १५ अस्तित्वानास्तित्वरूपेण । १६ निविचारसिद्धम्, तत्सिद्धौ विचारः कोऽपि न कर्त्तव्य इत्यर्थः । विचारसि - मु०, द० । १७ प्रास्तिकं प्रति नास्तिकः । १८ उपलब्धौ । १६ वस्तुस्वरूपेण । २० प्रतिपाद्यत्वात् । २१ स्वभावतः । २२ प्रदर्शनीयत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org