________________
१४
सर्वसिद्धान्तप्रवेशकः प्रसवाऽभिष्वङ्ग-प्रीतयः कार्यं सत्त्वस्य, कोष-ताप-भेद-स्तम्भोद्वेगाऽपद्वेषाः कार्यं रजसः, आवरण-सादन-बीभत्स-दैन्य-गौरवाणि तमसः कार्यम् ।
"सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।
गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ।।" [साङ्ख्यका०१३] एवं तावत् प्रकृतिः स्थूल-सूक्ष्मरूपेण व्याख्याता ॥
अथ पुरुषः किंस्वरूपः ? चैतन्यं पुरुषस्य स्वरूपम् । प्रकृतिपुरुषयोश्च उपभोगार्थः सम्बन्धः संयोगः पङ्ग्वन्धयोरिव । उपभोगश्च शब्दाद्युपलम्भो गुणपुरुषान्तरोपलम्भश्च । आह-किमेक:
E
१. 'धर्मप्रीत्यादयः A । एतद्विषयकेषु तत्तद्ग्रन्थान्तर्गतभागेषु प्रायः सर्वत्र 'धर्म' शब्दस्थाने 'उद्धर्ष' पाठ एवोपलभ्यते । यदि तु यथा श्रुत'धर्म'शब्दपाठे एव निर्बन्धः तहि 'अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् ॥२३।।' इति सांख्यकारिकाप्रतिपादितं धर्मं गृहीत्वा संगमनीयम् । २. "गप्रद्वेषा: B | ३. तुलना-"सुखानां शब्द-स्पर्श-रूप-रसगन्धानां प्रसादलाघवप्रसवाऽभिप्वङ्गोद्धर्षप्रीतयः कार्यम् । दुःखानां शोष-तापभेदा(दो)पस्तम्भोद्वेगाऽपद्वेषाः । मूढानां वरण-सदना-ऽपध्वंसन-बैभत्स्य-दैन्यगौरवाणीति"-नयचक्रवृत्ति पृ० १२ । "प्रसाद-लाघवा-ऽभिष्वङ्गोद्धर्षप्रीतयः सत्त्वस्य कार्यम् ।...ताप-शोप-भेद-स्तम्भोद्वेगापद्वेगा(षा) रजसः कार्यम् ।... दैन्याऽऽवरण-सादना-5[प] ध्वंस-बीभत्स-गौरवाणि तमसः कार्यम्"-तत्त्वसं० पं० पृ० २१ । न्यायकुमुदचन्द्र पृ० ३५० ॥ ४. नेयमार्या B प्रतौ ॥ ५. किंरूपः A॥ ६. स्वं रूपम् A || "वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते । तद्यथा-चैतन्यं पुरुषस्य स्वरूपमिति । यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते ?"-पातञ्जलदर्शनयोगभाष्य १।९।। ७. सम्बन्ध: A नास्ति । ८. "पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥२१॥"-सांख्यका० ॥ ९. "सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥३७॥"-साङ्ख्यका० । "तथा चाहुः-उपभोगस्य शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्तः ।"-सांख्यका० युक्तिदीपिका पृ० १३९ । “प्रधानस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org