________________
साङ्ख्यदर्शनम्
१५ पुरुषोऽनेको वा ? अनेक इत्याह । का पुनरत्र युक्तिः ? जन्म-मरणकरणानां नियमदर्शनाद् धर्मादिषु प्रवृत्तिनानात्वाच्चानेकः पुरुषः, स आत्मोच्यते इति ॥
अथ प्रमाणं वक्तव्यम् । तदुच्यते-प्रत्यक्षमनुमानमागमश्चेति । तत्र प्रत्यक्षम्-“श्रोत्रादिवृत्तिः प्रत्यक्षम्" [ ] श्रोत्र-त्वक्-चक्षु-जिह्वाघ्राणानां मनसाधिष्ठितानां शब्दादिविषयग्रहणे वर्तमाना वृत्तिः
पुरुषार्था प्रवृत्तिः । स च पुरुषार्थो द्विविधः-शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्तश्च"-माठरवृ० पृ० ७९॥
१. नियमादर्श A । नियतदर्श BI "जन्म-मरण-करणानां प्रतिनियमादयुगपत् प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥१८॥ जन्मनियमात् पश्यामो बहवः पुरुषाः, यथैकस्मिन्नधिष्टाने बहवः स्त्रियो गर्भिण्यः तत्र काश्चित् प्रसूताः काश्चित् प्रसविष्यन्ति । यद्येकः पुरुषः स्यात् एकस्यां प्रसूतायां सर्वाः प्रसवेरन् । अतः पश्यामो बहवः पुरुषाः ।... । यद्येकः पुरुषः स्यात् एकस्मिन् जीवति सर्वे जीवेरन्, एकस्मिन् मृते सर्वे म्रियेरन्, तस्मान्मरणनियमात् पश्यामो बहवः पुरुषाः । किञ्च, बधिराः, केचिन्मूकाः, केचिदमूकाः ।...| अतः कारणान्नियमात् पश्यामो बहवः पुरुषाः इति । अयुगपत्प्रवृत्ति(त्ते)श्च, इह लोके नानाविधा प्रवृत्तिदृष्टा, तद्यथा एको धर्मे, एकः कामे, एकोऽर्थे, अन्यः मोक्षे । अतः पश्यामो बहवः पुरुषा इति । इतश्च बहवः पुरुषाः त्रैगुण्यविपर्ययार्थम्, एकस्य कस्यचित् ब्राह्मणस्य त्रयः पुत्रा एकेनोत्पन्नाः तुल्यगोत्रस्वाध्यायाः । तत्र एकः सात्त्विकः, एकः राजसः, एकस्तामसः । यद्येकः पुरुषः स्यादेकस्मिन् सात्त्विके सर्वे सात्त्विका स्युः ।....! न चैकं भवति । अतः पश्यामो बहवः पुरुषा इति । त्रैगुण्यविपर्ययाद्'वासुदेवदर्शनात् मणिसूत्रदर्शनाच्च एकः पुरुषः" इति तेन (तन्न) । एवं तावत् पञ्चभिर्हेतुभिः पुरुषबहुत्वं सिद्धमित्याह ।"-[जेसलमेरस्थपुस्तकसङ्ग्रहान्तर्गता] सांख्यकारिकावृत्तिः A | पृ० ३२ ।। २. नानात्वादनेकः B ॥ ३. पुरुष इति A ॥ ४. "वार्षगण्यस्यापि लक्षणमयुक्तमित्याह-श्रोत्रादिवृत्तिरिति ।"-न्या० वा० ता० पृ० १३२ । “श्रोत्रादिवृत्तिरिति वार्षगणाः" -सांख्यका० युक्तिदी० पृ० ३९ । "श्रोत्रादिवृत्तिः प्रत्यक्षमनुमानमनुस्मृतिः ।"-सिद्ध० द्वा० १३।५।। ५. वर्तनाद् वृत्ति: B । तुलना-"तथा श्रोत्रादिवृत्तिः प्रत्यक्षम्, श्रोत्र-त्वक्-चक्षु-जिह्वा-घ्राणानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org