________________
१३
साङ्ख्यदर्शनम्
[साङ्ख्यदर्शनम्] अथ साङ्ख्यमतप्रदर्शनायेदमुपदिश्यते । तत्र हिं 1 प्रकृतिः पुरुषः तत्संयोगश्च । । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः । । तस्या एव वैषम्यावस्था परिणामः । यथा 1 *तस्याः प्रकृतेर्महानुत्पद्यते, महतोऽहङ्कार:* ततश्चाहङ्कारादेकादशेन्द्रियाणि-पञ्च बुद्धीन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, अपरं मनः । तथा तत एवाहङ्कारात् तमोबहुलात् पञ्च तन्मात्राणि, तद्यथा-शब्दतन्मात्रम्, स्पर्शतन्मात्रम्, रूपतन्मात्रम्, रसतन्मात्रम्, गन्धतन्मात्र-मिति । एतेभ्यश्च यथाक्रमेण भूतानि आकाशवाय्वग्न्युदकभूमयः भूतसमुदायश्च शरीर-वृक्षादयः ।
सत्त्वादिलक्षणं वक्तव्यमिति चेत्; तदुच्यते-प्रसाद-लाघव
१. मप' A ॥ २. 11 एतदन्तर्गतः पाठ: B नास्ति । "ततश्च यदृच्छामात्रत्वादङ्गीकृतपुरुषार्थयत्नार्थहानिः ।....। तस्य च हानौ प्रधान-पुरुषसंयोगत्रित्वपरिज्ञानार्थशास्त्रयत्ना[र्थ] हानिरपि''-नयचक्रवृत्तिः पृ० १४ ॥ ३. तम:साम्या' B | "एतेषां या समावस्था सा प्रकृतिः किलोच्यते ।"षड्दर्शनसमुच्चय ३६ A ॥ ४.11 एतदन्तर्गतः पाठः B नास्ति ॥ ५. ★★एतत्स्थाने A प्रतावित्थं पाठः- महान् अहङ्कारः । तुलना"प्रकृतेर्महांस्ततोऽहंकारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि ॥२२॥"-सांख्यकारिका ॥ ६. पञ्च B नास्ति ।। ७. च एकादशं मन: A ॥ ८. तथैकादशाद् गणात् तमो' B । तुलना-"अभिमानोऽहंकारस्तस्माद् द्विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशकस्तन्मात्रकपञ्चकश्चैव ॥२४|| सात्त्विक एकादशकः प्रवर्तते वैकृतादहंकारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥२५॥"-सांख्यका । ९. शब्द रूप रस गन्ध स्पर्श । एतेभ्यश्च तथा क्रमेण भूतानि तथा पृथिव्याप्तेजोवाय्वाकाशादीनि भूतसमु B । तुलना-"तन्मात्राणि शब्द-स्पर्श-रूप-रस-गन्धाख्यानि"-सांख्यका० माठरवृत्ति पृ० १० ॥ १०. प्रकाश[ प्रसाद° BI "प्रीत्यप्रीति-विषादात्मकाः प्रकाश-प्रवृत्ति-नियमार्थाः ॥१२॥"-सांख्यका० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org