________________
नैयायिकदर्शनम् सामान्यतो दृष्टं च" [न्या० सू० १।१।५] इति । तत्पूर्वकमिति प्रत्यक्षपूर्वकम् । त्रिविधमिति लिङ्गविभागः । पूर्ववदिति कारणात् कार्यानुमानम्, यथा मेघोन्नतिदर्शनाद् भविष्यति वृष्टिरिति । शेषवदिति कार्यात् कारणानुमानम्, यथा विशिष्टाद् नदीपूरदर्शनात् 'उपरि वृष्टो देवः' इति गम्यते । सामान्यतो दृष्टं नाम यथा देवदत्तादौ गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्य आदित्येऽपि समधिगम्यते ॥
"प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम्'' [न्या० सू० १।११६] । प्रसिद्धो गौः, तेन सह यत् साधर्म्य सामान्यं ककुद-खुर-विषाणादिमत्त्वम्, तस्मात् साधर्म्यात् साध्यस्य गवयस्य साधनमुपमानम्, यथा गौः तथा गवय इति । किं पुनरत्रोपमानेन क्रियते ? संज्ञासंज्ञिसम्बन्धप्रतिपत्तिरुपमानार्थः ॥
अथ कः शब्दः ? “आप्तोपदेशः शब्दः" [न्या० सू० १।१७] । आप्तः खलु साक्षात्कृतधर्मा, तेन य उपदेशः क्रियते स आप्तोपदेश आगमः शब्दाख्यं प्रमाणमित्युच्यते ॥
किं पुनरत्रानेन प्रमाणेनार्थजातं मुमुक्षुणा प्रमेयम् ? तदुच्यतेआत्म-शरीरेन्द्रिया-ऽर्थ-बुद्धि-मनः-प्रवृत्ति-दोष-प्रेत्यभाव-फलदुःखा-ऽपवर्गास्तु प्रमेयम्" [न्या० सू० १।१।९] ॥
अथ संशयः-किंचि(स्वि)दित्यनवधारणात्मक: प्रत्ययः संशयः ।
१. यत् नास्ति B ॥ २. साधर्म्यत: B ॥ ३. "किं पुनरत्रोपमानेन क्रियते ?....समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थ:"-न्यायभाष्य १।१।६।। ४. आप्तश्च B || "आप्तः खलु साक्षात्कृतधर्मा'-न्यायभाष्य १।१।७॥ ५. दुःखसुखा' A ॥ ६. किमित्य B || "स्थाणु-पुरुषयोः समानं धर्ममारोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोविशेषं बुभुत्समानः 'किंस्वित्' इत्यन्यतरं नावधारयति तदनवधारणं ज्ञानं संशयः"-न्यायभाष्य १।१।२३। 'किंस्वित्' इति विमर्शः संशयः ।"न्यायकलिका, पृ० ८ । "किंस्वित्' इति वस्तुविमर्शमात्रमनवधारणं ज्ञानं संशयः।" -न्यायभाष्य ११११। “किंस्वित्' इति दोलायमानस्य उभयकोटिस्पृशः प्रत्ययस्याऽर्थेऽनवधारणात्मकस्य' न्यायवार्तिक-तात्पर्यटीका० पृ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org