________________
सर्वसिद्धान्तप्रवेशकः तद्यथा-मन्दमन्दप्रकाशे स्थाणु-पुरुषोचिति(त) भूभागे 'स्थाणुः स्यात् पुरुषः स्यात्' इति ॥
अथ प्रयोजनम्-येन प्रयुक्तः प्रवर्तते तत् प्रयोजनम् ॥
अथ दृष्टान्तः-अविप्रतिपत्तिविषयापन्नोऽर्थो दृष्टान्तः, यथा अनित्याद्यर्थविचारे घटाद्याकाशादिरिति ॥
अथ सिद्धान्तः । स च चतुर्विधः, तद्यथा-सर्वतन्त्रसिद्धान्तः १, प्रतितन्त्रसिद्धान्तः २, अधिकरणसिद्धान्तः ३, अभ्युपगमसिद्धान्तश्चेति ४॥ ___ अथावयवाः-"प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः" [न्या० सू० १।१।३२] । तत्र 'अनित्यः शब्दः' इति प्रतिज्ञा । 'उत्पत्तिधर्मकत्वात्' इति हेतुः । 'घटवत्' इत्युदाहरणम् । इह यद् यदुत्पत्तिधर्मकं तत् तदनित्यं दृष्टम्, यथा घटः, व्याप्ति(ई)ष्टान्तानुपातिनी* । तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः । तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम् । वैधयॊदाहरणेऽपि* इह यदनित्यं न भवति तदुत्पत्तिधर्मकमपि न भवति, यथा आकाशम्, *न च तथाऽनुत्पत्तिधर्मकः शब्द इति, तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति निगमनम् ॥
संशयादूर्द्ध भवितव्यताप्रत्ययस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति ॥
१. स्थाणुः पुरुषो वेति भूभागे B ॥ २. 'अनित्य' साधने साधोदाहरणत्वेन घटादेः वैधोदाहरणत्वेन आकाशादेश्च सर्वथौचित्यात् 'अनित्याद्यर्थविचारे' इति पाठ: रमणीय एव । दृश्यताम्. न्यायभाष्य १।१।३६, ३७ । ३. ★★एतच्चिह्नान्तर्गत: पाठ: B प्रतौ नास्ति || ४. निगमनम् A प्रतौ नास्ति ॥ ५. तुलना-"भवितव्यमिति य ऊहः स तर्क:'"-न्यायवार्तिक पृ० ३२६ ॥ "अनवधारणात्मकः प्रत्ययः संशयः 'किंस्वित्' इति । अवधारणात्मकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org