________________
सर्वसिद्धान्तप्रवेशकः
नैयायिकदर्शनम् ]
तत्र नैयायिकदर्शने तावत् " प्रमाण- प्रमेय-संशय-प्रयोजनदृष्टान्त - सिद्धान्त - ऽवयव- तर्क - निर्णय-वाद- जल्पवितण्डाहेत्वाभासच्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानाद् निःश्रेयसाधिगमः' [ न्यायसूत्र १|१|१] ।
२
अस्य व्याख्या–प्रणीयतेऽनेनेति प्रमाणम् । तस्य च सामान्यलक्षणम्-अर्थोपलब्धिहेतुः प्रमाणम् । उपलब्धिश्च हानादिबुद्धिः । तच्चतुर्धा, तद्यथा–‘“प्रत्यक्ष - ऽनुमानो-पमान- शब्दाः प्रमाणानि " [न्या० सू० १११/३] । तत्र प्रत्यक्षम् — इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् " [न्या० सू० १|१|४।] । अस्य गमनिका — इन्द्रियाणि घ्राणादीनि, अर्था घटादयो गन्धादयश्च, तेषां सन्निकर्षः सम्बन्धः, तस्मात् सन्निकर्षादुत्पन्नम्, नाऽभिव्यक्तम्, ततश्च साङ्ख्यमतव्यवच्छेदः । ज्ञानग्रहणात् सुखादिव्यवच्छेदः । तंच्च शब्देन व्यपदिश्यमानं शाब्दं प्रसज्यते, तेनोच्यते - अव्यपदेश्यमिति । तथा तदेव ज्ञानं व्यभिचार्यपि भवति, तेनेह 'अव्यभिचारि' इति । 'व्यवसायात्मकम्' निश्चयस्वभावम्, ततश्च संशयज्ञानव्यवच्छेदः । 'प्रत्यक्षम्' इति लक्ष्यनिर्देशः ॥
अनुमानम् — " तत्पूर्वेकं त्रिविधमनुमानम् – पूर्ववत्, शेषवत्,
१. तत्त्वपरिज्ञानाद् A ॥ २. "प्रमीयतेऽनेनेति प्रमाणम्" - न्यायकलिका० पृ० १ । ३. च B मध्ये नास्ति ॥ ४. " उपलब्धिहेतुश्च प्रमाणम् ।" न्यायभाष्य २|१|१| न्यायवार्तिक० पृ० १५ । " अर्थोपलब्धिहेतुः स्यात् प्रमाणं तच्चतुर्विधम् ।" - षड्दर्शनसमुच्चय || १६ || "अर्थोपलब्धिहेतुः प्रमाणम्' इति नैयायिकादयः' - न्यायावतारवृत्ति० पृ० ९ । प्रमाणमीमांसा १|१८|| ५. श्चेह बुद्धि तच्चतुर्धा तद्यथा B | श्च हानादिबुद्धिः तद्यथा A ॥ ६. " प्रमाणेन खल्वयं ज्ञाताऽ ऽर्थमुपलभ्य तमर्थमभीप्सति जिहासति वा । "- -न्यायभाष्य० ॥ ७. "गन्ध-रस-रूप- स्पर्श- शब्दाः पृथिव्यादिगुणास्तदर्थाः " –न्यायसूत्र० १|१|१४| " पृथिव्यादीनि गुणाश्चेति द्वन्द्वसमासः । " -- न्यायवार्तिक पृ० २०५ || ८. अभिव्यक्तम् A ॥ ९. अतश्छब्देन B ॥ १०. प्रयुज्यते A ॥
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org