________________
चिरन्तनजैनमुनीश्वरप्रणीतः सर्वसिद्धान्तप्रवेशकः
॥ नमः सर्वज्ञाय ॥ सर्वभावप्रणेतारं प्रणिपत्य जिनेश्वरम् । वक्ष्ये सर्ववि( नि )गमेषु यदिष्टं तत्त्वलक्षणम् ॥१॥ सर्वदर्शनेषु प्रमाण-प्रमेयसमुच्चयप्रदर्शनायेदमुपदिश्यते ।
टिप्पणानि श्रीशळेश्वरपार्वं सद्गुरुदेवांश्च भुवनविजयाख्यान् । प्रणिपत्य परमभक्त्या टिप्पणमिह तन्यते किञ्चित् ॥
सर्वदर्शनसिद्धान्तेषु सम्यक् प्रवेशकतया यथार्थाभिधस्य चिरन्तनेन केनचिज्जैनमुनिप्रवरेण रचितस्यास्य सर्वसिद्धान्तप्रवेशकग्रन्थस्य तालपत्रेषु लिखितं यत् प्रतिद्वयं जेसलमेरनगरे जैनज्ञानभाण्डागारे विद्यते तदवलम्ब्य सम्पादितोऽयं ग्रन्थः । तत्रैका प्रतिविक्रमसंवत् १२०१ वर्षे लिखिता "९६x १६" 'इंच' प्रमिता B इति संज्ञयात्र व्यवहता । अस्यां प्रतौ दिङ्नागरचितो न्यायप्रवेशक: (पत्र १-१७), सर्वसिद्धान्तप्रवेशकः (पत्र १७-४१), हरिभद्रसूरिविरचिता न्यायप्रवेशकटीका (पत्र ४२-१३४) इति ग्रन्थत्रयं विद्यते । अपरा त्वितोऽपि प्राचीना जीर्णप्राया १७ पत्रात्मिका "१२-४१६' इंच (Inch) प्रमिता प्रति: A संज्ञयात्र व्यवहृता । एवं च A-B प्रत्योर्मध्ये ये उपयोगिनः पाठभेदास्तेऽत्र A संकेतेन B संकेतेन वोपन्यस्ताः । स्पष्टीकरणांद्यर्थमुपयोगीनि टिप्पणानि च निवेश्य सम्पादितोऽयं ग्रन्थो देव-गुरुकृपाबलात् ॥
१. सर्वनिगमेषु सर्वसिद्धान्तेष्विति भावः । “गमनं गमः परिच्छेद इत्यर्थः । निश्चितो गमो निगमः ।' -न्यायावतारवृत्ति पृ० ७५ । “निगमा: पूर्वणिग्वेदनिश्चयाध्ववणिक्पथाः ।" -हैमकोशः ।। २. इदं मङ्गलपद्यं B प्रती नास्ति ॥ ३. 'मपदि° A ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org