________________
[२१]
तमश्छायातपो- द्योतवंतश्च ॥ २४ ॥ अणवः स्कंधाश्च ॥ २५ ॥ भेद - संघातेभ्यः उत्पद्यन्ते ॥ २६ ॥ भेदादणुः ॥ २७ ॥ भेद - संघाता भ्यां 'चाक्षुषः ।। २८ ।। सद्-द्रव्य-लक्षणम् ॥ २९ ॥ उत्पादव्यय धौव्ययुक्तं सत् ॥ ३० ॥ तद्भावाव्ययं नित्यम् ॥ ३१॥ अर्पितानर्पितसिद्धेः ॥ ३२ ॥ स्निग्ध रुक्षत्वाद्बन्धः ॥ ३३ ॥ न जघन्य गुणानाम् ॥ ३४ ॥ गुणसाम्ये सदृशानाम् ॥३५ ॥ द्वयधि कादि गुणानां तु ॥ ३६ ॥ बन्धेऽधिको पारिणामिकौ च ॥३७ । गुणपर्ययवद् द्रव्यम् ।। ३८ ।। कालश्च ॥ ३९ ॥ सोऽनन्त समयः ॥ ४० ॥ द्रव्याश्रया - निर्गुणा गुणाः ॥ ४१ ॥ तद्भावः परिणामः
॥ ४२ ॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे पंचमोऽध्यायः ॥ ५ ॥
काय - वाड्-मनः कर्म योगः ॥ १ ॥ स आस्रवः ॥ २ ॥ शुभः पुण्यस्याशुभः पापस्य ॥ ३ ॥ सकषायाकषाययो: साम्परायिकेर्यापथयोः ॥ ४ ॥ इन्द्रियकषायाव्रत - क्रियाः पंच चतुः पंचपंचविंशति संख्या: पूर्वस्य भेदाः ॥ ५ ॥ तीव्र मन्दज्ञाताज्ञातभावाधिकरण- वीर्य - विशेषेभ्यस्तद्विशेषः ॥ ६ ॥ अधिकरणं जीवा जीवाः ॥७ ॥ आद्यंसंरम्भसमारंभारम्भ-योग- कृतकारिता नुमत कषाय- विशेषैस्त्रिस्त्रिस्त्रिश्च तुश्चैकशः । ८ । निवर्तना निक्षेप-संयोगनिसर्गा द्वि चतुर्द्वि त्रि भेदाः परम् ॥ ९ ॥ तत्प्रदोषनिह्नव मात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरण योः ॥ १० ॥ दुःखशोक तापाक्रन्दन वध परिदेवना न्यात्मपरोभय स्थानान्यसद् वेद्यस्य ॥ ११ ॥ भूतव्रत्यनुकम्पादान सरागसंयमादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org