________________
[२०]
पञ्चदशभिरधिकानितु॥३१॥आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥३२॥ अपरापल्योपमम धिकम् ॥ ३३॥ परतः परतःपूर्वापूर्वाऽनंतरा ॥ ३४॥ नार काणां च द्वितीयादिषु ॥३५॥ दशवर्ष सहस्त्राणि प्रथमायाम् ॥३६॥ भवनेषु च ॥३७॥व्यन्तराणां च ॥३८॥ परापल्यो पममधिकम्॥३९॥ज्योतिष्काणांच॥४०॥तद्दष्ट-भागोऽपरा ॥४१॥लौकान्तिकानामष्टौ सागरोपमाणि च सर्वेषां ॥४२॥
इति तत्वार्थाधिगमे मोक्षशास्त्रे चतुर्थोऽध्यायः ॥ ४॥ अजीवकाया धर्माधर्माकाश-पुद्गलाः ॥१॥द्रव्याणि ॥२॥ जीवाश्च ॥३॥ नित्यावस्थितान्यरुपाणि॥४॥ रुपिणः पुद्ग लाः॥५॥ आकाशादेकद्रव्याणि ॥६॥ निष्क्रियाणि च ॥७॥असंख्येयाः प्रदेशाधर्माधर्मैकजीवानाम्॥८॥ आकाश स्यानन्ताः॥ ९॥ संख्येयासंख्येयाश्च पुद्गलानाम् ॥१०॥ नाणोः ॥ ११॥ लोकाकाशेऽवगाहः ॥१२॥ धर्माधर्मयोः कृत्स्ने ॥१३॥ एकप्रदेशादिषु भाज्यः पुद्गलानां ॥१४॥ असंख्येयभागादिषुजीवानाम् ॥१५॥प्रदेश-संहारविसर्पाभ्यां प्रदीपवत्।१६ गति-स्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥१७॥ आकाशस्यावगाहः ॥१८॥ शरीरवाड्मनः प्राणापाना: पुद्गलानाम् ॥१९॥ सुखदुःखजीवित मरणोपग्रहाश्च ॥२०॥ परस्परोपग्रहोजीवानाम्॥२१॥वर्तना परिणाम क्रिया परत्वा परत्वे च कालस्य।।२२।। स्पर्श-रस गन्ध-वर्ण-वंतः पुदगलाः।।२३।। शब्द-बंधसौक्ष्य स्थौल्य-संस्थान-भेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org