________________
[२२]
योगःशांतिःशौचमिति सद्वेद्यस्य ॥१२॥ केवलि श्रुतसंघ धर्म देवावर्णवादोदर्शनमोहस्य ॥ १३॥ कषायोदयातीव्रपरिणामश्चारित्रमोहस्य ॥१४॥ बह्वारम्भ परिग्रहत्वं नारकस्यायुषः॥१५॥माया-तैर्यग्योनस्य ॥१६॥ अल्पारम्भ परिग्रहत्वं मानुषस्य ॥१७॥स्वभाव मार्दवं च ॥ १८॥ निः शीलव्रतत्वं च सर्वेषाम् ॥१९॥सरागसंयम संयमासंयमा काम निर्जरा बालतपांसि दैवस्य॥२०॥सम्यक्त्वं च ॥२१॥योग वक्रता विसंवादनं चाशुभस्य नाम्नः ॥२२॥ तद्विपरीतंशुभस्य ॥२३॥ दर्शनविशुद्धिर्विनयसम्पन्नता शीलव्रतेष्वनतीचारोऽ भीक्ष्णज्ञानोपयोग संवेगौ शक्तितस्त्याग तपसीसाधुसमाधि वैयावृत्यकरण-मर्हदाचार्य बहुश्रुतप्रवचन-भक्तिरावश्यकापरि हाणि र्गिप्रभावना प्रवचनवत्सलत्वमिति-तीर्थंकरत्वस्य ॥२४॥ परात्म-निंदा प्रशंसे-सद्सद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २५॥ तद्विपर्ययोनीचैर्वृत्यनुत्सेको चोत्तरस्य ॥२६॥ विघ्नकरणमन्तरायस्य ॥२७॥
इति तत्वार्थाधिगमे मोक्षशास्त्रे षष्ठोऽध्यायः ॥६॥ हिंसानृत स्तेयाब्रह्म परिग्रहेभ्यो विरतिव्रतम् ॥१॥देशसर्वतोऽणु-महती ॥२॥ तत्स्थैर्यार्थ भावना:पंच-पंच॥३॥वाङ् मनोगुप्तीर्यादान निक्षेपण समित्यालोकित पानभोजनानि पंच ॥४॥क्रोधलोभ भीरुत्व-हास्य-प्रत्याख्यानान्यनुवीची-भाषणं च पंच ॥५॥ शून्यागार विमोचितावास परोपरोधाकरणभैक्ष्यशुद्धि-सधर्माऽविसंवादाः पंच ।। ६ ॥ स्त्री राग-कथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org