________________
[१७] शेषास्त्रिवेदाः॥५२॥औपपादिक-चरमोत्तमदेहाऽसंख्येयवर्षायुषोऽनपवायुषः॥५३॥
इति तत्वार्थाधिगमे मोक्षशास्त्रे द्वितीयोऽध्यायः ॥ २ ॥
रत्न-शर्करा-बालुका-पङ्क-धृम-तमो-महातमःप्रभाभूमयोघनांबुवाताकाशप्रतिष्ठाःसप्तोऽधोऽधः॥१॥तासुत्रिंशत्पंचविंशतिपंचदशदशत्रि-पंचोनैकनरक-शतसहस्त्राणि-पंच-चैवयथाक्रमम् ॥ २॥ नारका नित्याऽशुभतर-लेश्या-परिणाम-देहवेदना-विक्रियाः॥३॥परस्परोदीरितदुःखाः॥४॥संक्लिष्टाऽसुरो दीरितः दुःखाश्चप्राक् चतुर्थ्याः ॥५॥ तेष्वेक-त्रिसप्त-दशसप्तदश-द्वाविंशति-त्रयस्त्रिंशत्सागरोपमा-सत्वानां परास्थितिः ॥६॥जम्बूद्वीपलवणो-दादयःशुभनामानोद्वीपसमुद्राः॥७॥ द्विर्द्धिर्विष्कम्भा:पूर्व-पूर्वपरिक्षेपिणोवलयाकृतयः॥८॥तन्मध्ये मेरुनाभिर्वृत्तो योजन शतसहस्त्र विष्कम्भो जम्बूद्वीपः ॥९॥ भरत हैमवत-हरि विदेहरम्यक-हैरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषध-नीलरुक्मि शिखरिणो वर्ष धर-पर्वताः ॥११॥ हेमार्जुन तपनीयवैडूर्यरजत हेम मयाः ॥ १२॥ मणिविचित्र पार्था उपरी मूले च तुल्य-विस्ताराः ॥१३॥ पद्म महापद्मतिगिच्छ केशरि-महापुण्डरीक पुण्डरीका-हृदास्तेषा-मुपरि ॥१४॥प्रथमोयोजनसहस्त्रायामस्तदर्द्धविष्कम्भो हृदः॥१५॥ दशयोजनावगाहः ॥१६॥ तन्मध्ये योजनं पुष्करम् ॥१७॥ तद्विगुणद्विगुणाहृदाः पुष्कराणि च॥ १८॥ तन्निवासिन्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org