________________
[१८] देव्य:श्री ह्रीं-धृति-कीर्ति-बुद्धि-लक्ष्यः पल्योपमस्थितयः ससामानिक-परिषत्काः॥१९॥गंगा-सिन्धुरोहिद्रोहि-तास्या हरिद्धरिकांताः सीतासीतोदा नारी नरकांता सुवर्णरुप्यकूलारक्तारक्तोदाःसरितस्तन्मध्यगाः ॥२०॥द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥२१॥ शेषास्त्वपरगाः ॥२२॥ चर्तुदश नदीसहस्त्र-परिवृता गंगासिन्ध्वादयो नद्यः ॥ २३॥ भरतः षड्विंशतिपंचयोजनशत-विस्तार: षट् चैकोनविंशति-भागा योजनस्य ॥२४॥तद्विगुण-द्विगुण विस्तारा वर्षधरवर्षा विदेहान्ताः ॥ २५॥ उत्तरा दक्षिण-तुल्याः ॥२६॥भरतैरावतयोर्वृद्धिह्रासौ षट्-समयाभ्यामुत्सर्पिण्यव-सर्पिणीभ्याम् ॥२७॥ ताभ्यामपराभूमयोऽवस्थिताः ॥ २८॥ एक द्वि-त्रि पल्योपमस्थितयो हैमवतक-हारिवर्षक-दैवकुरवकाः ॥२९॥तथोत्तराः ॥३०॥ विदेहेषु संख्येय-कालाः ॥ ३१॥ भरतस्य विष्कम्भो जम्बूद्वीपस्यनवति शत भागः ॥ ३२॥ द्विर्घातकी खण्डे ॥३३॥पुष्कराढेच ॥३४॥प्राड्-मानुषोत्तरान्मनुष्याः ॥३५॥ आर्याम्लेच्छश्च॥ ३६॥ भरतैरावत-विदेहाः कर्मभूमयोऽन्यत्र देवकुरुत्तर कुरुभ्यः ॥३७॥ नृस्थिती परावरे त्रिपल्योपमान्त मुहूर्ते ॥३८॥ तिर्यग्योनिजानां च ॥३९॥ ___ इति तत्वार्थाधिगमे मोक्षशास्त्रे तृतीयोऽध्यायः ॥३॥
देवाश्चतुर्णिकायाः ॥१॥ आदितस्त्रिषु पीतान्त-लेश्या: ॥२॥ दशाष्ट पंचद्वादश विकल्पा: कल्पोपपन्नपर्यताः ॥३॥ इन्द्रसामानिक त्रायस्त्रिंशत्पारि षदात्मरक्ष-लोकपालानीक प्रकीर्णकाभियोग्य किल्विषिकाश्चैकशः ॥४॥ त्रायस्त्रिंश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org