________________
[१६]
मनस्काः॥११॥संसारिणस्त्रस-स्थावराः ॥१२॥पृथिव्यप्तेजोवायु-वनस्पतयःस्थावराः ॥१३॥ द्वीन्द्रियादयस्त्रसाः ॥१४॥ पंचेन्द्रियाणि ॥१५॥ द्विविधानि ॥१६॥ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७॥लब्ध्युपयोगौ भावेन्द्रियं ॥१८॥ स्पर्शनरसनाध्राण-चक्षुः श्रोत्राणि ॥१९॥ स्पर्श-रस-गंध-वर्णशब्दास्तदर्थाः ॥२०॥श्रुतमनिन्द्रियस्य॥२१॥ वनस्पत्यंतानामेकं ॥२२॥कृमिपिपीलिका-भ्रमर-मनुष्यादीनामेकैकवृद्धानि ॥२३॥संज्ञिन:समनस्काः ॥२४॥विग्रहगतौकर्मयोगः ॥२५॥ अनुश्रेणी गतिः ॥२६॥अविग्रहा जीवस्य॥२७॥ विग्रहवती चसंसारिणः प्राक्चतुर्थ्यः ॥२८॥एकसमयाऽविग्रहा ॥२९॥ एकंद्वौत्रीन्वानाहारकः॥३०॥संमूर्च्छन गर्भोपपादाजन्म ॥३१॥ सचित्तशीत-संवृताः सेतरामिश्राश्चैकशस्तद्योनयः॥ ३२॥ जरायुजांडजपोतानांगर्भः॥३३॥देवनारकाणामुपपादः ॥३४॥ शेषाणांसम्मूर्च्छनं ॥ ३५॥ औदारिक वैक्रियिका-हारक तैजसकार्मणानि शरीराणि ॥३६॥ परं परं सूक्ष्मं ॥३७॥ प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥३८॥ अनन्तगुणे परे ॥३९॥अप्रतीघाते ॥४०॥अनादिसंबंधे च ॥४१॥ सर्वस्य ॥४२॥ तदादीनि भाज्यानि-युगपदेकस्मिन्नाचतुर्थ्यः॥४३॥ निरुपभोगमन्त्यं ॥४४॥गर्भसम्मूर्च्छनजमाद्यं ॥४५॥औपपादिकं वैक्रियिकं ॥४६॥लब्धि-प्रत्ययं च॥४७॥ तैजसमपि ॥ ४८॥ शुभंविशुद्धमव्याघातिचाहारकं प्रमत्त-संयतस्यैव ॥४९॥नारकसंमूर्च्छिनो नपुंसकानि ॥५०॥नदेवाः ॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org