________________
[१५]
व्यंजनस्यावग्रहः ॥ १८॥ न चक्षुरनिन्द्रियाभ्यां ॥१९॥ श्रुतंमतिपूर्वद्वयनेक द्वादशभेदं॥२०॥ भवप्रत्ययोऽवधिर्देवनारकाणां ॥२१॥ क्षयोपशम-निमित्तःषड विकल्पः शेषाणां ॥२२॥ऋजुविपुलमती मनःपर्ययः॥२३॥विशुद्धयप्रतिपाताभ्यां तद्विशेषः॥२४॥ विशुद्धि-क्षेत्रस्वामिविषयेभ्योऽवधि-मन:पर्यययोः॥२५॥ मति श्रुतयोर्निबन्धोद्रव्येष्वसर्व-पर्यायेषु ॥२६॥ रुपिष्ववधेः ॥२७॥तदनंतभागे मनःपर्ययस्य ॥२८॥ सर्व द्रव्यपर्यायेषु केवलस्य ॥२९॥ एकादिनिभाज्यानियुगपदेकस्मिन्नाचतुर्थ्यः॥३०॥मतिश्रुतावधयोविपर्ययश्च ॥३१॥ सदसतोरविशेषाद्य-दृच्छोपलब्धेरून्मत्तवत् ॥३२॥ नैगम-संग्रह व्यवहारर्जुसूत्र-शब्दसमभिरुद्वैवं-भूतानयाः॥३३॥
इति तत्वार्थाधिगमे मोक्षशास्त्रे प्रथमोऽध्यायः ॥१॥
औपशमिक-क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिक-पारिणामिकौ च॥१॥ द्विनवाष्टा-दशैक विंशति त्रिभेदा यथाक्रम।।२।।सम्यक्त्व-चारित्रे ।।३।। ज्ञानदर्शन-दान-लाभ-भोगोपभोग-वीर्याणिच ॥४॥ज्ञानाज्ञानदर्शनलब्धयश्चतु-स्त्रित्रि-पंचभेदाःसम्यक्त्व-चारित्रसंयमासंयमाश्च ॥५॥गति-कषाय-लिंग-मिथ्यादर्शनाज्ञानासंयतासिद्ध-लेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः॥६॥जीवभव्याभव्यत्वानि च॥७॥ उपयोगो लक्षणं॥८॥ स द्विविधोऽष्टचतुर्भेदः॥९॥ संसारिणो मुक्ताश्च ॥१०॥ समनस्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org