________________
मोक्षशास्त्र (तत्त्वार्थसूत्र) मूल
(आचार्य गुद्धपिच्छ) मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां।
ज्ञातारं विश्वतत्त्वानां वंदे तद्गुणलब्धये॥ त्रैकाल्यं द्रव्य-षट्कं नव-पद-सहितं जीव-षट्काय लेश्याः। पंचान्ये चास्तिकाया व्रत-समिति-गति-ज्ञान-चारित्रभेदाः॥ इत्येतन्मोक्षमूलं त्रिभुवन महितैः प्रोक्तमहद् भिरीशैः। प्रत्येति श्रध्धाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः॥१॥ सिद्ध जयप्प सिद्ध चउव्विहाराहणाफलं पत्ते। वंदिताअरहं ते वौच्छं आराहणा कमसो॥२॥ उज्जोवणमुज्जवणं णिव्वहणं साहणं च णिच्छरणं। दंसण-णाण चरित्तं तवाणमाराहणा भणिया॥ ३॥
सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः ॥१॥तत्त्वार्थश्रद्धानं-सम्यग्दर्शनं ॥२॥ तनिसर्गादधिगमाद्वा॥३॥ जीवाजीवास्त्रव-बंध-संवर-निर्जरा-मोक्षास्तत्त्वं।४।नाम-स्थापनाद्रव्य-भावतस्तन्यासः॥५॥प्रमाणनयैरधिगमः ॥६॥निर्देशस्वामित्व-साधनाधिकरण-स्थिति-विधानतः ॥७॥सत्संख्याक्षेत्र-स्पर्शन-कालांतर-भावाल्पबहूत्वैश्च ॥८॥ मतिश्रुतावधि-मन:पर्यय-केवलानि ज्ञानं ॥९॥तत्प्रमाणे ॥१०॥ आद्ये परोक्षं ॥११॥ प्रत्यक्षमन्यत् ॥१२॥ मतिः स्मृतिः संज्ञाचिंताऽभिनिबोध इत्यनर्थान्तरं ॥१३॥ तदिन्द्रियानिन्द्रियनिमित्तं ॥१४॥अवग्रहेहावाय-धारणाः ॥१५॥बहु-बहुविधक्षिप्रानिः-सृतानुक्त ध्रुवाणांसेतराणां ॥१६॥ अर्थस्य ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org