________________
પર્યુષણાવિચાર પ્રત કર્તા : શ્રી હર્ષભૂષણ ગણિ स्यता : वि. सं. १४८६
अपि च विषमकालानुभावात् जैनटिप्पनकं व्यवच्छिन्नम् ततस्तत्प्रभृति खंडितस्फुरित-तदुपर्यष्टमी-चतुर्दश्यादिकरणे तानि सूत्रोक्तानि न भवन्ति इत्यागमेन लोकैश्च समं परं विरोधः (इति) विचार्य सर्वपूर्वगीतार्थ सूरिभिरागममूलमिदम् अपि तु प्रतिष्ठादीक्षादिसर्वकार्यमुहूर्तेषु लौकिकटिप्पनकमेव प्रमाणीकृतम् । __ सुनिश्चितं नः परतंत्रयुक्तिषु स्फुरन्ति या काश्चन सूक्तिसंपदः, तवैव ताः पूर्वमहार्णवोद्धृता जगुः प्रमाणं जिनवाक्यविपुषः इति श्री सिद्धसेनदिवाकरवचनात्, अतः सांप्रतगीतार्थसूरिभिरपि तदेव प्रमाणीक्रियमाणमस्ति ।
(२) किंच भवतां जैनटिप्पनकं प्रमाणं उत लौकिकं ? यद्याद्यं तन्न, तस्य बहुकालाद् व्यवच्छिन्नत्वात्' व्यवच्छिन्नमपि चेत् ? प्रमाणीकरिष्यते तदा वर्षाचातुर्मासकं पंचाशदुत्तरशतदिनैः कथं क्रियमाणमस्ति यतस्तटिपन्नकाभिप्रायेण भवतां तत्पंचमासात्मकं न भवत्येव सर्वत्र विंशत्युत्तरशतदिनैरेव तस्य श्रूयमाणत्वात् पंचमासात्मकं तु भवद्भिरपीष्यत एव किंचैवाष्टमोऽभिवर्द्धितमासोऽस्ति, यद्वा नास्ति, यद्वा गतवर्ष एव स व्यतीतो व्यवच्छिन्ननायककल्पनया कदाचनाऽपि गृहं सनायकं (?) बोभोति ।
अथ लौकिकमिति चेत्तर्हि देहाधिकवद्धितांगुल्याद्यवयववद् वर्द्धिततिथिवञ्चसागणित एवाऽस्ति अतो जैनलौकिकटिप्पनकयोराकृतेन पूर्वदर्शिता यशधरसिद्धान्ताऽभिप्रायेण च स कथं भवतामपि गणनीयोऽस्ति ?
अपि च यदा जैनटिप्पनकव्यापृतिरभूत्तदाऽप्यधिकमास: शीतोष्णकालचतुर्मासकयोश्चउण्हं मासाणमट्ठण्हं पक्खाणं अभिवर्द्धितवर्षशते च संवच्छरो वइक्कंतो संवच्छरियं वइक्कममित्याद्यनेकाक्षरैरगणनीय एवाऽभूत् ।।
_ 'संप्रति वद्धिताऽवर्द्धिततिथिमासचतुर्मासकपर्युषणादिपर्व-प्रतिष्ठा-दीक्षादिसर्वकार्याणि लौकिकटिप्पनकानुसारेणैव सर्वत्र व्यवह्रियमाणानि सन्ति तत्र च सर्वमासानामभिवृद्धिः स्यादेवेति ।' ___ “अपि च चंद्रसूर्यग्रहणहेतुकास्वाध्यायकाले लग्नादिकार्येषु च लौकिकटिप्पनमुरीक्रियते, पर्युषणापर्वकाले तु व्यवच्छिन्नसिद्धान्तटिप्पनकं पुरस्क्रियते इति कोऽयं मनीषिमान्यो नयः नहि क्वापि निर्मलमुच्छिन्नं च सुव्यवहारघटनायां पटु दृष्टं तथापि co...पतिथि क्षयवृद्धि ) सर सने शास्त्रीय सम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org