________________
२५८
वज्जालग्ग
७५३. रयणेहि निरंतरपूरिएहि रयणायरस्स न हु गव्वो।
करिणो मुत्ताहलसंसए वि मयविब्भला दिट्ठी ॥८॥ रत्ननिरन्तरपूरितै रत्नाकरस्य न खलु गर्वः।
करिणो मुक्ताफलसंशयेऽपि मदविह्वला दृष्टिः ।। ७५४. अणवरयं देतस्स वि तुटुंति न सायरे वि रयणाई ।
पुण्णक्खएण खिज्जइ न हु लच्छी चायभोएहिं ॥९॥ अनवरतं ददतोऽपि न खलु त्रुट्यन्ति सागरेऽपि रत्नानि ।
पुण्यक्षयेण क्षीयते न खलु लक्ष्मीस्त्यागभोगाभ्याम् ॥ ७५५. रयणायरस्स न हु होइ तुच्छिमा निग्गएहि रयणेहिं ।
तह विहु चंदसरिच्छा विरला रयणायरे रयणा ॥१०॥ रत्नाकरस्य न खलु भवति तुच्छत्वं निर्गतै रत्नैः ।
तथापि खलु चन्द्रसदक्षाणि विरलानि रत्नाकरे रत्नानि । ७५६. रयणायरचत्तेण वि पत्तं चंदेण हरह तिलयत्तं ।
तेण उण तस्स ठाणे न याणिमो को परिझुविओ ॥११॥ रत्नाकरत्यक्तेनापि प्राप्तं चन्द्रेण हरस्य तिलकत्वम् ।
तेन पुनस्तस्य स्थाने न जानीमः कः प्रतिष्ठापितः ।। ७५७. जइ वि हु कालवसेणं ससी समुद्दाउ कह वि विच्छुडिओ।
तह वि हु तस्स पयावं(?पयासो)आणंदं कुणइ दूरे वि॥१२॥ यद्यपि खलु कालवशेन शशी समुद्रात् कथमपि वियोजितः।
तथापि खलु तस्य प्रतापः(? प्रकाशः) आनन्दं करोति दूरेऽपि ॥ ७५८. रयणाइ सुराण समप्पिऊण वडवाणलस्स छुहियस्स ।
अप्पा (? अप्पं) देंतेण तए समुद्द मुइंकियं भुवणं ॥१३॥ रत्नानि सुरेभ्यः समर्प्य वडवानलाय क्षुधिताय । आत्मानं ददता त्वया समुद्र मुद्राङ्कितं भुवनम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org