SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [ २०१५५ द्वितीयपादस्य प्रथमाक्षरं चतुर्थपादस्य द्वितीयाक्षरेण सह चतुर्थपादस्य प्रथमाक्षरेण सह द्वितीयपादस्य द्वितीयाक्षरं गृहीत्वा पुनरनेन तावन्नेतव्यं यावत् परिसमाप्तिर्भवति, ततो मुरजबन्धः स्यात् । ८० अलंकारचिन्तामणिः धिया ये श्रितये तार्त्या यानुपायान्वरानतः । पापा यातपारा ये श्रियाऽऽयातानतन्वत ॥ १५५ ॥ I 1 I अर्धभ्रमः गूढपश्चार्द्धश्च । कोऽस्यार्थः - चतुरः पादानधोऽधो विन्यस्य चतुर्णा पादानां चत्वारि प्रथमाक्षराणि तेषामपि चत्वार्य्यन्त्याक्षराणि गृहीत्वा प्रथमपादो भवति । तेषां द्वितीयाक्षराणि चत्वार्यन्त्यसमीपाक्षराणि चत्वारि गृहीत्वा द्वितीयपादो भवति एवं चत्वारोऽपि पादाः साध्याः । अनेन न्यायेन अर्धभ्रमो भवति । प्रथमार्द्धे यान्यक्षराणि तेषु पश्चिमार्द्धाक्षराणि सर्वाणि "विशन्ति । एकस्मिन्नपि समानाक्षरे बहूनामपि समानाक्षराणां प्रवेशो भवति । अतो गूढपश्चाद्धेऽप्ययं भवति । धिया बुद्धया । ये यदो रूपम्, श्रितया आश्रितया सेव्यया इत्यर्थः । इता विनष्टा आतिः मनःपीडा यस्याः सेयमितातिः तया । यान यदः शसन्तप्रयोगः । उपयान् उपपूर्वस्य अय गतौ इत्यस्याजन्तस्य रूपम् उपगम्यानित्यर्थः वराः प्रधानभूताः इन्द्रादयः नताः प्रणताः ये च वक्ष्यमाणेन च शब्देन संबन्धः । न विद्यते पापम् एषां ते अपापाः शुद्धाः कर्मरहिता इत्यर्थः । यातं पारं यैस्ते यातपाराः अधिगतसर्वपदार्था इत्यर्थः । ये च श्रीलक्ष्मीस्तया आयातान् आगतान् अतन्वत तनु विस्तारे इत्यस्य धातोः लङन्तस्य रूपम् । यथा द्रव्येण राजान आश्रितान् विस्तारयन्ति उत्तरसूत्रे क्रियापदं तिष्ठति तेन सह संबन्धः । आसते सततं ये च सति पुर्वक्षयालये । ते पुण्यधा रतायातं सर्वदा माऽभिरक्षत ॥ १५६॥ रचना करनी चाहिए । पुनः द्वितीयपादके प्रथमाक्षरको चतुर्थपादके द्वितीयाक्षर के साथ; और चतुर्थपाद के प्रथमाक्षर के साथ द्वितीयपादके द्वितीयाक्षरको लेकर समाप्ति पर्यन्त रचना करने से मुरजबन्ध होता है । अर्द्धभ्रमगूढपश्चाद्ध चित्रका उदाहरण जो पीडारहित - अनन्त सुख सम्पन्न हैं, प्राप्त हुई— ज्ञानावरणकर्मके अत्यन्त क्षय से उपलब्ध — केवलज्ञानरूपी लब्धिसे सहित हैं; जिन्हें उपाय - सेवनीय समझ इन्द्रादि श्रेष्ठ पुरुष नमस्कार करते हैं, जो पापकर्ममलसे रहित हैं, जो संसारसमुद्रको पार कर चुके हैं अथवा जिन्होंने समस्त पदार्थोंको जान लिया है, जो शरणागतों को लक्ष्मी द्वारा विस्तृत करते हैं-- केवलज्ञानादि लक्ष्मीसे युक्त करते हैं और जो उत्कृष्ट तथा अविनाशी मोक्षमन्दिर में सदा निवास करते हैं, वे कल्याणप्रदाता जिनेन्द्र भगवान् १. प्रविशन्ति - । २. पूर्वक्षयालये -ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001726
Book TitleAlankar Chintamani
Original Sutra AuthorN/A
AuthorAjitsen Mahakavi, Nemichandra Siddhant Chakravarti
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Kavya
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy