________________
पुरुदेवचम्पूप्रबन्धे
[ २०७२४६२४) कथा प्राग्जन्मकलिता स्मृता देवागमेक्षणात् ।
___ लज्जायवनिकान्तस्था पुरो नटति ते सखि ! ॥१५।।
$२५ ) पुरा खलु धातकोखण्डमण्डनायमाननन्दनवनसुन्दरपूर्वमन्दरापरविदेहाश्रितगन्धिलविषयाभिरामं पाटलिग्राममधिवसतो नागदत्तवणिजः सुदतीविख्यातया कान्तया विराजमानस्य नन्द-नन्दिमित्र-नन्दिषेण-वरसेन-जयसेननामानः सकलगुणसीमानः पञ्चपुत्राः पुत्रिके च मदनकान्ता श्रीकान्तेत्यासन्, तयोरहं कनीयसी संजाता निर्नामिका नाम ।
$२६ ) कदाचिच्चारणचरितविदितरम्यवनविलसदम्बरतिलकधराधरे विराजमानं पिहितास्रवमुनिमानम्य, केन कर्मणास्मिन्दुर्गतकुले जातेत्यप्राक्षम् । इति मया पृष्टोऽसौ मुनिरिदमाचष्ट ।
5२७ ) अत्र किल विषये पलालपर्वतग्रामे पूर्व देवलाख्याद् ग्रामकूटात्सुमतेमदरे जाता
१० $ २४ ) कथेति-प्राग्जन्मकलिता पूर्वभवघटिता देवागमेक्षणात् सुरागमदर्शनात् स्मृता स्मृतिपथमायाता कथा
लज्जैव वपैव यवनिका नेपथ्यं तस्या अन्तस्था मध्यस्थिता सती हे सखि ! ते पुरोऽने नटति नृत्यति ॥१५॥ ६२५ ) पुरेति-पुरा खलु पूर्वकाले धातकीखण्डस्य द्वितीयद्वीपस्य मण्डनायमान आभरणोपमानो नन्दनवनसुन्दरो नन्दनवनमनोहरो यः पूर्वमन्दरः पूर्वमेरुस्तस्यापरविदेहाश्रितः पश्चिमविदेहस्थितोः यो गन्धिलविषयो
गन्धिलदेशस्तस्मिन्नभिरामं मनोहरं, पाटलिग्रामं तन्नामनगरम्, अधिवसतो निवसतः सुदतीविख्यातया सुदतीति१५ नामप्रसिद्धया कान्तया वल्लभया विराजमानस्य नागदत्तवणिजो नागदत्तवैश्यस्य सकलगुणसीमानो निखिलगुण
प्रकृष्टावधयो नन्दादयः पञ्चपुत्राः मदनकान्ता श्रीकान्ता चेति द्वे पुत्र्यौ च आसन्, तयोः पुश्योरहं कनीयसी लघुपुत्री संजाता, निर्नामिकेति मम प्रचलितं नामासीत् । $ २६ ) कदाचिदिति-कदाचित् जातुचित् चारणानां चारणद्धिसंपन्नतपोधनानां चरितेन विदितं प्रसिद्धं चारणचरितनामधेयमिति यावत, चारणचरितविदितं यद् रम्यवनं मनोहरकाननं तेन विलसन् शोभमानो योऽम्बरतिलकधराधर एतन्नामपर्वतस्तस्मिन् विराजमानं शोभमानं पिहितास्रवमुनि तन्नाममुनिराजम्, आनम्य नमस्कृत्य, केन कर्मणा अहम् अस्मिन् दुर्गतकुले दरिद्रकुले जाता समुत्पन्ना, इतोत्थम् अप्राक्षम् पृष्टवती। इत्येवं मया निर्नामिकया पृष्टोऽनुयुक्तोऽसौ मुनिः पिहितास्रवः, इदं वक्ष्यमाणम् आचष्ट कथयामास । $ २७ ) अत्रेति-अत्र किल विषये अस्मिन्नेव देशे पलालपर्वतग्रामे तन्नामनिगमे पूर्व पूर्वजन्मनि देवलाख्यात् देवलनामधेयात् ग्रामकूटाद् ग्रामस्वामिनः सुमतेः
२०
समान लज्जासे नम्रमुखी हो कहने लगी ॥१४॥ २४ ) कथेति-हे सखि ! देवागमके देखनेसे २५ स्मरणमें आयी हुई पर्वजन्म सम्बन्धी कथा लज्जारूपी परदाके भीतर स्थिर होकर मेरे सामने
नृत्य कर रही है ।।१५।। ६२५) पुरेति-निश्चयसे पहले धातकीखण्ड द्वीपके आभरण स्वरूप तथा नन्दनवनसे सुन्दर जो पूर्वमेरु है उससे पश्चिम दिशामें स्थित विदेह क्षेत्रमें एक गन्धिल देश है उसमें सुशोभित पाटलिनामक ग्राममें एक नागदत्त नामका वैश्य रहता था।
वह नागदत्त सुदतीनामसे प्रसिद्ध स्त्रीसे सुशोभित था। उसके नन्द, नन्दिमित्र, नन्दिषेण, ३० वरसेन और जयसेन नामके समस्तगुणोंकी सीमास्वरूप पाँच पुत्र और मदनकान्ता तथा
श्रीकान्ता नामकी दो पुत्रियाँ थीं। उन पुत्रियों में मैं छोटी पुत्री थी तथा मेरा निर्नामिका नाम चालू था। $ २६ ) कदाचिदिति-किसी समय चारणचरित नामसे प्रसिद्ध वनसे सुशोभित अम्बरतिलक पर्वतपर विराजमान पिहितास्रव नामक मुनिराजको नमस्कार कर मैंने पूछा कि
मैं किस कर्मसे इस दरिद्र कुलमें उत्पन्न हुई हूँ। इस तरह मेरे द्वारा पूछे जानेपर उक्त मुनिराज ३५ यह कहने लगे। ६२७) अत्रेति-इसी देशके पलाल पर्वत ग्राममें पहले तुम देवल नामक
ग्रामपतिकी सुमति नामक स्त्रीसे उत्पन्न हुई थी। धनश्री तुम्हारा नाम था। किसी समय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org