________________
-१५ ]
द्वितीयः स्तबकः ललिताङ्ग ! क्वासि क्वासि, मनसि मे कीलित इव ते विलासो विलसतीति प्रलपन्ती श्रीमती मूर्छामुपाजगाम । ६१३ ) मलयजघनसारासारसेकैम॑णाली
मृदुलकुलनिधानः पुष्पशय्याधिरोहैः। व्यजनपवनपोतमन्दमाश्वास्य नीता
सुदगियमथ संज्ञां सादराभिः सखीभिः ।।८।। ६१४ ) चकोराक्षी सेयं मनसि खचितं तं सुरवरं
पुरः पश्चात्पार्वेऽप्युपरि किल पश्यन्त्यनुकलम् । सखीभिः साशङ्कं सपदि परिपृष्टापि बहुधा
पिकीव ग्रीष्मर्ती समतनुत मौनव्रतकलाम् ॥९॥ $१५ ) तदनु पर्याकुलाभिरालीभिनिवेदितोदन्ती लक्ष्मीमतीवज्रदन्ती मातापितरौ
पूर्वभवपतिमित्यर्थः स्मृत्वा ध्यात्वा, हा रूपेण विचित्रं विस्मयकरमङ्ग शरीरं तत्सम्बुद्धौ, सुराङ्गनानां देवीनां वदनाम्बजेष भङ्गकरणं भ्रमरायमाणमपाङ्गं कटाक्षो यस्य तत्सम्बद्धौ. देव ललिताङ्ग ! क्वासि क्वासि वोप्सायां द्वित्वम्, ये मम मनसि चेतसि कोलित इवाङ्कित इव ते तव विलासो विभ्रमो विलसति शोभते इति प्रलपन्ती श्रीमती मूछी निःसंज्ञताम् उपाजगाम प्राप । $ १३ ) मलयजेति-अथानन्तरं सादराभिः सखीभिः १५ सहचरीभिः, इयं सुदृग् श्रीमती मलयश्च घनसारश्चेति मलयजघनसारौ चन्दनकर्पूरी तेषामासारेण संपातेन सेकाः सेचनानि तैः, मृणालीनां विसानां मृदुलकुलस्य कोमलसमूहस्य निधानानि उपधानानि तैः, पुष्पशय्यासु कुसुमविष्टरेष्वधिरोहा अधिष्ठापनानि तैः, व्यजनानां तालवृन्तानां पवनपोतर्मन्दमरुद्भिः, मन्दं शनैर्यथा स्यात्तथा, आश्वास्य संबोध्य संज्ञां चेतनां नीता प्रापिता। मालिनीच्छन्दः ॥८॥१४) चकोराक्षीति-मनसि चेतसि खचितं निखातं तं पूर्वोक्तं सुरवरं ललिताङ्गं पुरोऽग्रे पश्चात्पृष्ठे पार्वे समीपे उपर्यपि ऊर्ध्वमपि अनुकलं २० प्रतिसमयं पश्यन्ती अवलोकयन्ती इयं सा चकोराक्षी चकोरलोचना श्रीमती सखीभिरालीभिः साशवं यथा स्यात्तथा सपदि शीघ्रं बहुधा नानाप्रकारेण परिपृष्टापि अनुयुक्तापि ग्रीष्म? निदाघे पिकीव कोकिलेव मौनव्रतकलां तूष्णोभावं समतनुत विस्तारयामास । उपमालंकारः । शिखरिणीच्छन्दः ॥९॥ ६१५) तदन्वितितदनु तदनन्तरं पर्याकूलाभिव्यंग्राभिः, आलीभिः सखीभिः निवेदितः कथित उदन्तो वृत्तान्तो ययोस्तो, लक्ष्मीमतिवज्रदन्ती तन्नामानौ मातापितरौ मातरपितरौ 'मातापितरौ पितरौ मातरपितरी स्वसू जनयितारौ' इत्यमरः, २५
भ्रमरोंके समान कटाक्षोंको चलानेवाले, ललितांगदेव ! कहाँ हो, कहाँ हो, तुम्हारा हाव-भाव मेरे मनमें कीलित हुएकी तरह सुशोभित हो रहा है। इस तरह चिल्लाती हुई वह श्रीमती मूर्छाको प्राप्त हो गयी। १३) मलयजेति-तदनन्तर आदर सहित सखियोंने इस सुलोचनाको धीरे-धीरे समझाते हुए चन्दन और कपूरके धाराबद्ध सेचनसे, मृणालोंके कोमल समूहसे बनी हुई तकियोंसे, फूलोंकी शय्यापर लेटानेसे तथा पंखोंकी मन्द-मन्द वायुसे ३० चेतनाको प्राप्त कराया ।८$ १४ ) चकोराक्षीति-मनमें खचित उस ललितांगदेवको आगे, पीछे, पासमें तथा ऊपरकी ओर प्रत्येक समय देखनेवाली इस चकोरलोचना श्रीमतीसे उसकी सखियोंने आशंकासहित शीघ्र ही अनेक बार पूछा परन्तु उसने ग्रीष्मऋतुमें कोयलके समान मौनव्रतकी कलाको ही विस्तृत किया अर्थात् कुछ भी उत्तर नहीं दिया।९।।१५) तदन्वितितदनन्तर घबड़ायी हुई सखियोंने जिन्हें सब समाचार सुनाया था ऐसे लक्ष्मीमती वज्रदन्त ३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org