SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ -१०० ] प्रथमः स्तबकः $ ९९ ) तस्या नेत्रं स्मितं चासीदुच्चकोरकसन्निभम् । अधरश्चरणश्चापि प्रवालश्रीविशोभितः ।।७१।। $१००) अस्या ओष्ठतलं पयोधरयुगं चित्तं च नाकाधिप क्रोडोद्यानमिवाबभौ मृगदृशश्चञ्चत्सुरागोज्ज्वलम् । केशानां वलयं वचश्च सुमनोजातेन लाल्यं क्यो रूपं चेति तदङ्गवर्णनकला पारं गिरां गाहते ॥७२॥ वर्ण्यते ।तथा हि $ ९९ ) तस्या इति-तस्याः स्वयंप्रभाया नेत्रं नयनं स्मितं मन्दहास्यं च उच्चकोरकसंनिभम् आसीत् तत्र नेत्रपक्षे उत्कृष्टा ये चकोरकारचकोरपक्षिणस्तेषां संनिभं सदृशं नेत्राणां चकोरोपमा दीयते कविभिः । चकोरा एव चकोरका इत्यत्र स्वार्थे कप्रत्ययः । स्मितपक्षे उच्चा उन्नता ये कोरकाः कुसुमकूड़मलास्तेषां संनिभं सदृशम् । तस्याः स्वयंप्रभाया अधरो दशनच्छदः चरणश्चापि पादश्चापि प्रवालश्रीविशोभित आसीत् । तत्राधरपक्षे प्रवाल: किसलयस्तस्येव श्रीः शोभा तया विशोभितः समलंकृतः, चरणपक्षे प्रवालो विद्रुमः 'मूंगा' इति हिन्दीभाषायां तस्येव श्रीः शोभा तया विशोभितः । श्लेषोपमा ।।७१॥ ६१००) अस्या इति-अस्या मृगदृशः कुरङ्गलोचनायाः स्वयंप्रभायाः ओष्ठतलं पयोधरयुगं कुचयुगलं चित्तं हृदयं च नाकाधिपस्य पुरन्दरस्य क्रीडोद्यानमिव केल्युपवनमिव आबभौ । अथ तेषां सादृश्यमाह-सुरागोज्ज्वलम् अस्य चतुर्णा पक्षे व्याख्यानं तत्र ओष्ठतलस्य पक्षे सुष्ठु रागः सुरागः सुन्दरलौहित्यं तेनोज्ज्वलं देदीप्यमानम्, पयोधर- १५ युगस्य पक्षे सुराणां देवानामगः पर्वतः सुमेरुरित्यर्थस्तद्वदुज्ज्वलम्, सुवर्णवर्णत्वेन कठिनत्बेन तुङ्गत्वेन वा सुमेरुसादृश्यम्, चित्तस्य पक्षे सुष्टु रागः सुरागः सुप्रीतिस्तेनोज्ज्वलं शोभमानम्, नाकाधिपक्रीडोद्यानपक्षे सुराणां देवानामगा वृक्षाः कल्पवृक्षास्तैरुज्ज्वलं शोभितम् । केशानां कचानां वलयं समूहः वचो वचनं वयोऽवस्था रूपं च सौन्दयं च सुमनोजातेन लाल्यं प्रशस्तम् । अस्यापि चतुर्णा पक्षे व्याख्यानं तत्र केशानां वलयस्य पक्षे सुमनोजातेन सुमनसां पुष्पाणां जातेन समूहेन लाल्यं, वचसः पक्षे सुमनोजातेन विद्वत्समूहेन लाल्यं, वयसः पक्षे सृष्ठ मनोजातः सुमनोजातस्तेन सुकामेन लाल्यं, रूपस्य पक्षे सुमनोजातेन देवसमहेन लाल्यं प्रशंसनीयम् आबभौ । इतीत्थं तदङ्गानां वर्णनकला तत्प्रतीकनिरूपणचातुरी गिरां वाचां पारमवसानं गाहते प्राप्नोति । तदङ्गवर्णनविधी वाचः समाप्ता भवन्तीति भावः । श्लेषोपमालंकारः शार्दूलविक्रीडितं छन्दः ॥७२॥ किया जाता है। $ ९९) तस्या इति-उस स्वयंप्रभा देवीका नेत्र तथा मन्दहास्य उच्चकोरकसन्निभ था अर्थात् नेत्र उत्कृष्ट चकोर पक्षीके समान था और मन्दहास्य उत्कृष्टफूलोंकी बोंड़ियोंके समान था। इसी प्रकार अधरोष्ठ और चरणप्रवाल श्रीविशोभित था अर्थात् १५ अधरोष्ठ प्रवाल -किसलयकी शोभासे सुशोभित था और चरणप्रवाल मूंगाकी शोभासे विभूषित था |७१॥ ६ १००) अस्या इति-इस मृगनयनी स्वयंप्रभाका ओष्ठतल, स्तनयुगल और चित्त इन्द्रके क्रीडोद्यानके समान सुशोभित हो रहा था क्योंकि जिस प्रकार इन्द्रका क्रीडोद्यान चञ्चत्सुरागोज्ज्वलं-शोभायमान कल्पवृक्षोंसे उज्ज्वल होता है उसी प्रकार इसका ओष्ठतल भी चञ्चत्सुरागोज्ज्वलं-शोभायमान सुन्दर लालिमासे उज्ज्वल था। स्तनयुगल २९ भी चञ्चत्सुरागोज्वलं-शोभायमान सुमेरुपर्वतके समान उज्ज्वल था, और चित्त भी चञ्चत्सुरागोज्ज्वलं-शोभायमान सुन्दर प्रीतिसे उज्ज्वल था। इसका केशसमूह, वचन, अवस्था और सौन्दर्य सुमनोजातेन लाल्य था अर्थात् केशोंका समूह सुमनोजातफूलोंके समूहसे सुशोभित था। वचन, सुमनोजात-विद्वानोंके समूहसे प्रशंसनीय था। अवस्था, सुमनोजात-सुन्दर कामदेवसे प्रशस्त थी, और सौन्दर्य, सुमनोजात-देव । - ३५ समहके द्वारा प्रशंसनीय था। इस प्रकार उसके शरीरकी वर्णनकला वाणीके पारको प्राप्त थी-वाणीके द्वारा उसके शरीरकी सुन्दरताका वर्णन नहीं हो सकता था ॥७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy